________________
[विवेकमञ्जरी
१६०]
इदानीं न हि जिहेमि त्वयाऽहं तनुजन्मना । मदादेशमनुष्ठातुं यदकार्षीमनोरथम् ॥१९८॥ सन्ति तोसलिपुत्राख्या आचार्या आर्यरक्षित ! इक्षुवाटे ममैवेतः प्रतिपन्नप्रतिश्रयाः ॥१९९॥ तत्पादपङ्कजोपास्तिभृङ्गतामङ्ग ! तां भज । ते त्वामध्यापयिष्यन्ति दृष्टिवादं जिनागमम् ॥२००॥ एवं प्रातः करिष्यामीत्यभिधायार्यरक्षितः । दृष्टिवादाभिधां ध्यायन् नाऽशेत रजनावपि ॥२०१॥ दृष्टिवादमथाध्येतुमापृच्छ्य जननी प्रगे। दृष्टिवादार्णवागस्त्यमियाय चार्यरक्षितः ॥२०२॥ अथैकं द्विजमायान्तं सार्धक्षुनवयष्टिकम् । कोऽसि त्वमिति सोऽपृच्छदालिङ्ग्यैष तमब्रवीत् ॥२०३॥ अहं ह्युपतटग्रामात् त्वा द्रष्टुं त्वत्पितुः सखा । प्रायं कल्ये, मया कार्यव्यग्रेणासि न वीक्षितः ॥२०४॥ गृह्यन्तामिक्षवश्चैते मयाऽऽनीताः कृते तव । गुरूणां दातुमुचिता लघुभ्यो हि सुखादिका ॥२०५।। उवाच सोमभूरिझूस्तात ! मन्मातुरर्पयेः । अहं शरीरचिन्तार्थ गच्छन्नस्मि बहिर्भुवि ।२०६॥ इदं च कथयेस्तस्यै पद्गच्छन्नार्यरक्षितः । अधुनेक्षुलतापाणिमद्राक्षीदादितोऽपि माम् ॥२०७॥ तथेति तत्कृते दध्यौ रुद्रसोमा निमित्तवित् । पूर्वाणि नव खण्डं च पुत्रो मेऽध्येष्यते ह्यतः ॥२०८॥ नवाहं दृष्टिवादस्य पूर्वाण्यध्यनानि वा । दशमं खण्डमध्येष्ये दध्यौ यानिति सोमभूः ॥२०९।।