________________
१६२]
[विवेकमञ्जरी
5
मया विवेकहीनेनोन्मत्तेनेव हतात्मना । हिंसोपदेशकं सर्वमधीतं नरकावहम् ॥२२२॥ आचार्य अपि तं शान्तं योग्यं मत्वैवमूचिरे । यदि त्वं दृष्टिवादाधिजिगांसुस्तत् परिव्रज ॥२२३॥ सोऽप्युवाच परिव्रज्यामिदानीमपि दत्त मे । किन्तु पूज्यैरतः स्थानादस्ति गन्तव्यमन्यतः ॥२२४॥ मामत्र स्थितवन्तं हि राजा पुरजनोऽपि च । अत्यन्तमनुरागेण प्रव्रज्यां त्याजयेदपि ॥२२५।। आचार्या अपि तस्योपरोधेन सपरिच्छदाः । गत्वाऽन्यत्र तमुत्सन्नवृजिनं पर्यविव्रजन् ॥२२६॥ अधीतैकादशाङ्गेन क्रमेणाचार्यसंनिधौ । दृष्टिवादोऽभवद् यावांस्तावांस्तेन समाददे ॥२२७।। अथार्यरक्षितायाख्यन्गुरवो गौरवोचितम् । यद् भूयान् दृष्टिवादोऽस्ति वज्रर्षेः सम्प्रति स्फुटः ॥२२८॥ श्रीवज्रस्वामिनमथ प्रति यानार्यरक्षितः । अवन्त्यां भद्रगुप्तस्य प्रभोः पादानवन्दत ॥२२९॥ गुणवन्तं तपोराशिं पूर्वावस्थाकुतीर्थिकम् । उपलक्ष्य तमाचार्याः परिषस्वजिरे मुदा ॥२३०॥ ऊचुश्च वत्स ! धन्योऽसि कृतार्थोऽसि सुधीरसि । ब्राह्मण्यं योऽधिगम्यापि श्रामण्यं प्रत्यपद्यथाः ॥२३१॥ अद्याहं क्षीणशेषायुष्कर्मा त्वामर्थयेऽनध ! । कर्तुकामोऽस्म्यनशनं मम निर्यामको भव ॥२३२॥ तथेति प्रतिपेदानं तमथो सूरिरन्वशात् । मा वज्रेण समं वत्स ! वसेरेकप्रतिश्रये ॥२३३॥
15