SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८] [विवेकमञ्जरी ततस्तदर्चितः सङ्घ पटे कृत्वा विहायसा । । पुरी नागपुरी निन्ये सुभिक्षसुभगामयम् ॥१७४॥ तस्यां जैनाश्च बौद्धाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौद्धाश्च जिग्यिरे ॥१७५।। तेऽथ बौद्धैर्निषिद्धेभ्यो मालाकृद्भ्यो नृपाज्ञया । नालभन्तार्थतुलितान्यगस्तिकुसुमान्यपि ॥१७६॥ तदा पर्युषणापर्वण्यागतेऽर्हदुपासकाः ।। तत्तथाऽकथयन् वज्रस्वामिनेऽश्रुमुखास्ततः ॥१७७।। समाश्वसित हे श्राद्धाः ! यतिष्ये वः सुतेजसे । इत्युक्त्वोत्पत्य भगवान् ययौ माहेश्वरी पुरीम् ॥१७८।। हुताशनाभिधानस्य देवस्योपवने स्थितः । योऽभूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥१७१।। अकस्मादागतं वज्रं दृष्ट्वैष तडिताभिधः । उवाच दिष्ट्याऽतिथये किमातिथ्यं करोमि ते ? ॥१८०॥ वज्रोऽभ्यधत्त कुसुमैः कार्य मे प्रत्युवाच सः । इह संपादयिष्यामि पुष्पलक्षाणि विंशतिम् ॥१८१॥ तर्हि त्वं प्रगुणीकुर्या इत्युक्त्वा भगवानपि । उत्प्लुत्य तार्थ्यवद् व्योम्नाऽगात् क्षुद्रहिमवगिरिम् ॥१८२॥ श्रीदेव्या भक्तितस्तत्र दत्तमादाय पङ्कजम् । वैश्वानरवनं प्रत्याययौ वज्रोऽतिरंहसा ॥१८३।। विद्याशक्त्या विचक्रोऽथ विमानं भगवानिह । न्यधाच्च पुष्पलक्षांस्तान् विंशति पङ्कजं च तत् ।।१८४|| छत्रस्येवाम्बुजस्याधो निषद्य भगवानथ । चिन्तितोपनतैः क्लृप्तप्रेक्षणो जृम्भकामरैः ॥१८५।। 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy