SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ [१५७ गुणानुमोदनाद्वारे वज्रस्वामिकथा] नितम्बिन्यस्त्याज्या दूरेण दृश्वरैः । यकाभ्यो योगिनां योगरसबन्धो विलीयते ॥१६२॥ शचीशचापचपला जन्तूनां यौवनश्रियः। किम्पाकफलपर्यन्तविषमा विषया अपि ॥१६३॥ एकैकशोऽपि विषयाः क्षयाय खलु देहिनाम् । पतङ्गभृङ्गपाठीनकुरङ्गकरिणामिव ॥१६४॥ न कामविषयादन्यः कोऽपि नीचपदप्रदः । द्विपदोपीह जायेत यस्मादङ्गी चतुष्पदः ॥१६५॥ अहत्वा विषयान् मोहयामिकान् न मुमुक्षुमिः । जरामरणजन्मादिशृङ्खला खलु मोट्यते ॥१६६॥ महानुभाव ! धन्यायाः कन्याया अपि ते धन ! । युज्यते विषयत्यागोऽस्मासु यद्येकतानता" ॥१६७॥ इत्थं भगवतस्तस्य सुधासारकिरा गिरा । रुक्मिणी शान्तविषयविषवेगाऽऽदित व्रतम् ॥१६८।। धर्मोऽयमेव हि श्रेयान् यत्र निर्लोभतेदृशी । एवं विमृश्य बहवः प्रतिबोधं जना ययुः ॥१६९।। तेनोद्दधेऽन्यदा विद्या पदानुसृतिलब्धिना । महापरिज्ञाचाराङ्गान्तरस्थाकाशगमिनी ॥१७०।। उचे च भगवानेवमनया विद्यया मम । जम्बूद्वीपाद् गतावस्ति शक्तिरामानुषोत्तरम् ॥१७१।। धार्यैवेयं महाविद्या हन्त ! देया न कस्यचित् । अल्पर्द्धयोऽल्पसत्त्वाश्च भाविनोऽन्ये ह्यतः परम् ॥१७२॥ 88 जगाम् विहरन् वज्रः पूर्वस्या दिशमुत्तराम् । रङ्कारालकरालोऽभूद् दुष्कालोऽग्रे तदा पुनः ॥१७३॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy