________________
5
10
15
20
१५६ ]
एष प्रायेण न स्थास्नुर्यद्यद्येव हि गच्छति । किं ज्ञायते कदाप्येति भूयोऽप्युड्डीनपक्षिवत् ॥ १५०॥ तस्मादलं विलम्बेन देहि वज्राय तात ! माम् । चिरकौमारदीनां मां कथं पश्यन् न दूयसे ? ॥ १५१ ॥ नोद्वक्ष्यत्यनगारोऽयमिति शङ्कां च मा कृथाः । व्रतस्थोऽपि न किं गौरीमुपायंस्त महेश्वरः ? || १५२॥ एवं धनोऽतिनिर्बन्धामुपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहार्हसर्वालङ्कारभूषिताम् ॥१५३॥ पुत्र्या सममनैषीच्च धनकोटीरनेकशः । प्रलोभनं वरयितुर्यथा स्यादिति जातधीः ॥१५४॥ उपवज्रं गतः श्रेष्ठी रूपं तस्य निरूपयन् । प्राशंसदात्मनः पुत्रीं साग्रहां तत्स्वयंवरे ॥१५५॥ धनस्य हृदये स्वार्थप्रार्थना कर्तुमिच्छतः । वज्रदेशनार्थोऽस्थात् क्षौमे लाक्षानुरागवत् ॥१५६॥ देशनान्तेऽवदद् वज्रं धन श्रेष्ठी कृताञ्जलिः । कृत्वा प्रसादं मत्पुत्रीमिमामुद्वह मानद ! ॥१५७॥ क्व भवानिन्दुतुल्यः क्व चेयं लक्ष्मशिखोपमा । तथाप्येनां स इव तामाद्रियस्व कृपां कुरु ॥ १५८॥ विवाहानन्तरं वज्र ! हस्तमोचनपर्वणि । द्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्ये भवत्वदः ॥१५९॥ "वज्रस्तमज्ञं विज्ञाय स्मित्वाचे करुणापरः । पर्याप्तं द्रव्यकोटीभिः कन्यया च तवानया ॥ १६०॥ सन्ध्याराग सहाध्यायी शम्पासंपातसोदरः । स्वप्नाभिनयशैलूषस्त्याज्योऽर्थोऽनर्थभूरयम् ॥१६१ ॥
[ विवेकमञ्जरी