________________
[१५५
गुणानुमोदनाद्वारे वज्रस्वामिकथा]
तद् यूयमपि वर्षि हे देव्यो ! द्रष्टुमर्हथ । त्वरितं यात, नैकत्रस्थायिनो यतयो यतः ॥१३८॥ इति वैद्योपदिष्टेष्टतुल्ययाऽथ नृपाज्ञया । नन्तुं विलोकितुं श्रोतुं राज्यो वज्रमुपाययुः ॥१३९।। भगवानपि वज्रस्ता मत्वाऽऽयाता नृपाङ्गनाः । कुरूपीभूय विदधे देशनामतिपेशलाम् ॥१४०॥ राज्ञो राज्योऽपि गत्वाऽथ शशंसुरिति सस्मितम् । देव ! गीरेव रम्याऽस्य वृथा रूपकथा पुनः ।।१४१।। राजा स्वघटमानं तत् श्रुत्वा द्रष्टुं स्वयं च तत् । विस्मयेन द्वितीयेऽह्नि वज्रं वन्दितुमागमत् ॥१४२॥ अनेकलब्धिमान् वज्रो विकृत्य कनकाम्बुजम् । निषसादाभ्रमुक्तोऽर्क इव स्वं रूपमुद्वहन् ॥१४३।। ऊचे च लोको वज्रस्य रूपं स्वाभाविकं हृदः । गुणानामाकृतेश्चाद्य सदृशोऽभूत् समागमः ॥१४४॥ राजापि व्याजहारैवं विस्मयस्मेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वज्रमुनिः खलु ॥१४५।। मा भूवं प्रार्थनीयोऽहं योषितामिति शङ्कया ।
सामान्यं शस्तनं रूपं व्यक्तं शक्त्यैष निर्ममे ॥१४६।। $$ इतश्चात्रान्तरे रुक्मिण्युवाच पितरं निजम् ।
वज्रस्वाम्यागतोऽस्तीह यं वुवूर्षाम्यहं सदा ॥१४७|| तन्मां वज्रकुमाराय संप्रदत्ताऽन्यथा तु मे। मरणं शरणं तात ! दृषल्लेखेव गीरियम् ॥१४८॥ आभिजातसखीं लज्जां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥१४९॥
15
20