________________
१५४]
[विवेकमञ्जरी
5
गणं वज्रमुनेः सिंहगिर्याचार्यं समर्प्य सः । प्रत्याख्यायान्नपानादि कालं कृत्वा ययौ दिवि ॥१२६॥ वज्रस्वामी व्यहार्षीच्च मुनिपञ्चशतीवृतः । महीमहीनसौभाग्यश्रुतशीलादिविश्रुतः ॥१२७॥ 88 इतश्च पाटलीपुत्रे धनिश्रेष्ठोऽभवद् धनः । तत्कन्या रूपधन्याऽभूदभिधानेन रुक्मिणी ॥१२८।। सा च तद्यानशालास्थसाध्वीभ्यो गुणसंस्तवम् । श्रीवज्रस्वामिनो नित्यमश्रृणोद् मसृणाशया ॥१२९॥ ततोऽसौ भाग्यसौभाग्यभासुरं तद्गुणश्रवात् । वज्रमेव पतीयन्तीं न्यषैत्सीदपरान् वरान् ॥१३०॥ व्रतिन्यो जगदुश्चैतामपि ! मग्धाऽसि रुक्मिणि !। वजं प्रव्रजितं वीतरागं यत् त्वं वुवूर्षसि ॥१३१।। रुक्मिण्यभिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥१३२॥ इतश्च विहरन् वज्रः पाटलीपुत्रपत्तने । आगत्योद्यान एकस्मिन् शमवान् समवासरत् ॥१३३॥ तदागमनसंभ्रान्तः पाटलीपुत्रपार्थिवः । एत्य श्रीवज्रचरणानर्चयित्वा नमोऽकरोत् ।।१३४|| वज्रोऽपि विदधे क्षीरास्रवलब्ध्याऽथ देशनाम् । निशम्य तामतिप्रीतो राजा स्वं सौधमाययौ ॥१३५।। ततोऽन्तः पुरनारीभ्यो हर्षोद्गारं चकार सः । यथाऽद्य वन्दितो वज्रस्वामी चामीकरच्छविः ॥१३६।। तं वन्दित्वा च दृष्ट्वा च तद्धर्मं निशम्य च । मम गात्रं च नेत्रे च श्रोत्रे चागुः कृतार्थताम् ॥१३७||