________________
[१५३
गुणानुमोदनाद्वारे वज्रस्वामिकथा]
स्वप्नादिति स्वशिष्येभ्यो भद्रगुप्तः प्रगे जगौ । यदेष्यत्यतिथिः कोऽपि स ममाध्येष्यते श्रुतम् ॥११४।। वज्रोऽपि नगरीद्वारे शर्वरीमतिवाह्य ताम् । प्रभाते भद्रगुप्तस्याचार्यस्य वसतिं ययौ ॥११५॥ प्रसिद्धिसदृशीं वज्रस्याकृति परिभाव्य च । वज्रोऽयमिति निश्चिक्ये भद्रगुप्तौ जहर्ष च ॥११६।। वन्दनाभिमुखं वजं भद्रगुप्तोऽथ सस्वजे । अङ्कमारोप्य चोवाच तन्मुखन्यस्तलोचनः ॥११७।। कच्चित्सुखविहारस्ते कच्चित्तेऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः ॥११८।। किं किञ्चित्कार्यमुद्दिश्य विहारक्रमतोऽथवा । इहागतोऽसि वज्रर्षे ! कथयास्मान् प्रमोदय ॥११९।। वन्दित्वा भद्रगुप्तर्षि वज्रो विरचिताञ्जलिः । उवाच वदनद्वारविन्यस्तमुखवस्त्रिकः ॥१२०॥ यद्यत् सुखविहारादि पूज्यपादैरपृच्छ्यत । तत्तत् तथैव देवानां गुरुणां च प्रसादतः ॥१२१॥ अध्येतुं दश पूर्वाणि त्वामागां गुर्वनुज्ञया । तद्वाचनाप्रदानेन प्रसीद भगवन् ! मयि ॥१२२॥ ततश्च दशपूर्वी तं भद्रगुप्तोऽध्यजीगपत् । गुरोरजनितक्लेशो वज्रश्च दशपूर्व्यभूत् ॥१२३॥ भद्रगुप्तमथापृच्छ्य वज्रो दशपुरं ययौ । पूर्वानुज्ञा कृता सिंहगिरिणा गुरुणाऽस्य तु ॥१२४॥ तदनुज्ञादिने तस्य विदधे जृम्भकामरैः । गन्धाम्बुवृष्टिकुसुमप्रकरैर्महिमाऽद्भुतैः ॥१२५॥