SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे वज्रस्वामिकथा ] $$ गुरोर्दण्डं समादाय तस्य चांही ममार्ज च । धौतवांश्चासनस्थस्य ववन्दे च पदोदकम् ॥९०॥ गुरवोऽचिन्तयन्नस्य व्रतिनः श्रुतसेवधेः । यथा जानन्ति माहात्म्यं प्रयतिष्यामहे तथा ॥ ९१ ॥ इत्याचार्या विभावर्या शिष्येभ्योऽकथयन्निति । यास्यामो ग्रामममुकं द्वित्राहं तत्र नः स्थितिः ॥९२॥ वज्रो वो वाचनाचार्यो भवितेति गुरोर्वचः । भक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥९३॥ प्रातः कृत्ये कृते वज्रं निषद्यायां न्यषादयन् । आचार्यस्येव विनयं तस्याकार्षुश्च साधवः ॥ ९४॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । संक्रान्त्या वज्रलेपाभान् वज्रोऽप्यालापकान् ददौ ॥९५॥ अमोधवचनो वज्रो बभूवातिजडेष्वपि । तद् नव्यमद्भुतं दृष्ट्वा गच्छः सर्वो विसिष्मिये ॥९६॥ आलापान् साधवः पूर्वमधीतान् सुस्फुरानपि । संवादार्थमपृच्छंश्च वज्रोऽप्याख्यत्तथैव तान् ॥९७॥ एकवाचनया वज्रात् तावत् पेठुर्महर्षयः । यावद् न गुरुतोऽमूभिरनेकाभिरपि श्रुतम् ॥९८॥ तेऽभ्यधुः साधवोऽन्योन्यं गुरुर्यदि विलम्बते । वज्रपार्श्वे तदा शीघ्रं श्रुतस्कन्धः समर्थ्यते ॥९९॥ गुरुभ्योऽप्यधिकं वज्रं मेनिरे मुनयो गुणैः । तद्भुतमपि किं पुष्पं वृक्षेभ्यो नातिरिच्यते ? ॥१००॥ एतावता गणो भावी ज्ञातवज्रगुणाः खलु । इत्यायातान् गुरुन् वज्रसहिता मुनयोऽनमन् ॥१०१॥ [ १५१ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy