________________
१५०]
[विवेकमञ्जरी
वज्रोऽथ सुस्थिरीभूतेकादशाङ्गो महामतिः । अधीयमानमादत्त श्रुत्वा पूर्वगताद्यपि ॥७८॥ स्थविराज्ञाभङ्गभीरुः शक्तिं स्वामप्रकाशयन् । पठन् स्वपाठमव्यक्तं सोऽश्रोषीत् पठतोऽपरान् ।।७९।। अन्यस्मिन्नह्नि मध्याह्ने विहर्तुं व्रतिनो ययुः बहिर्भूमौ च गुरवो वज्रोऽस्थाद् वसतौ पुनः ॥८०।। साधूनां मण्डलेष्वेष वेष्टिकाः स न्यवीविशत् । आचार्य इव साधूनां तासां चादत्त वाचनाः ॥८१॥ वसतिद्वारमायाता दूरादेवातिगर्जितम् । श्रुत्वा तद्वाचनाध्वानं गुरवोऽचिन्तयन्निति ॥८२॥ अस्मदागमनं त्वेते पालयन्तो महर्षयः । स्वाध्यायं कुर्वते भिक्षां समादाय समागताः ॥८३।। इत्याचार्याः क्षणं स्थित्वा विदाञ्चक्रुर्विमृश्य च । यथेष वज्रबालपेर्वाचनां ददतो ध्वनिः ॥८४।। असौ पूर्वगतस्तयैकादशाङ्ग्या अपि वाचनाम् । यद् दत्ते तत्किमध्यैष्ट गर्भस्थौ विस्मयामहे ॥८५॥ स्थविरैः पाठ्यमानोऽयमत एवालसायते । बाल्यात् पाठालस इति ज्ञात्वा तं प्रेरयामहे ॥८६।। अस्मदाकर्णनाशङ्की लक्षितो मा स्म भूदयम् । रोमाञ्चिताः शिष्यगुणैरित्याचार्या अपासरन् ॥८७|| शब्देन महताऽऽचार्याश्चक्रुषेधिकीमथ । गुरुणां शब्दमाकर्योदस्थाद् वज्रोऽपि विष्टरात् ।।८८॥ समुपेत्य मन्दगतिर्न यावत् प्राविशद् गुरुः । तावत्ता वेष्टिकाः सर्वाः स्थाने वज्रो मुमोच च ॥८९॥