SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [१४९ गुणानुमोदनाद्वारे वज्रस्वामिकथा ] अन्यदा वज्रगुरवः प्रत्यवन्ति प्रतस्थिरे । अन्तरा घनवृष्टौ च तस्थुर्यक्षमठे क्वचित् ॥६६॥ प्राग्जन्मसुहृदो वज्रस्यामरा जृम्भकास्तदा । सत्त्ववीक्षाकृते तत्र वणिजीभूय चावसन्. ।।६७।। वारिदे विरतप्राये गुरून्नत्वाथ ते सुराः । भिक्षार्थमभणन् वज्रं गुरवस्त्वनुजज्ञिरे ॥६८॥ वज्रोऽप्यावश्यकी कृत्वेर्यापरोऽपरसाधुयुक्। गच्छन्नप्कायकणिकास्पर्शभीतो न्यवर्तत ।।६९।। तुषमात्रामपि ततो वृष्टिं देवा निरुध्य ताम् । विहर्तुमनयन् वज्रं तत्सार्थे सोऽपि यातवान् ॥७०॥ ससंभ्रमेषु देवेषु तेषु भक्तादिदित्सया । द्रव्य-क्षेत्र-काल-भावैरुपयोगमदत्त सः ॥७१॥ कूष्माण्डकादिकं द्रव्यं कुतो राद्धमसंभवि । इदं तूज्जयिनीक्षेत्रं स्वभावादेव कर्कशम् ॥७२॥ प्रावृषि प्रथमायां च द्रव्यस्यास्य कथापि का? । दातारोऽप्यनिमेषाक्षाः साक्षात्पद्भ्यामभूस्पृशः ॥७३॥ तद् ध्रुवं देवपिण्डोऽयमकल्प्यो यतिनामिति । वलितोऽसौ प्रणम्योचे प्रत्यक्षीभूय तैः सुरैः ।।७४।। वयं हि जृम्भका देवाः प्राग्जन्मसुहृदस्तव । त्वां द्रष्टुं चागमामेह कृष्टाः स्नेहगुणेन ते ॥७५॥ अथ वैक्रियलब्ध्याख्यां विद्यां वज्राय तेऽमराः । समन्ततः क्लृप्तमाया इव दत्त्वा तिरोऽभवन् ॥७६॥ ज्येष्ठे मास्यन्यदा तद्वत् परीक्ष्य बहुरूपिणीम् । विद्यां वज्राय दत्त्वामी यथागतमगुः सुराः ॥७७॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy