SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १४८] "यदि सङ्घमुपेक्षिष्ये कृत्वा मातुः कृपामहम् । तदा स्याद् मम संसारो सारो दीर्घतरः खलु ॥५४॥ धन्येयं च सवित्री मेऽल्पकर्मा प्रव्रजिष्यति । आयतिदुःखमोक्षाय ततः स्यां भेषजादिवत्" ॥५५॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रदृढाशयः । प्रतिमास्थ इव स्थानाद् न चचाल मनागपि ॥ ५६॥ ततो राज्ञा धनगिरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥५७॥ व्रते चेद् व्यवसायस्ते तत्त्वज्ञोऽसि यदि स्वयम् । तद् रजोहरणं धर्मध्वजमादत्स्व मेऽनध ! ॥५८॥ वज्रस्तमभि धावित्वा घर्धरायितुघुघुरः । रजोहरणमादत्त लीलाम्भोजं व्रतश्रियः ॥५९॥ सद्यो म्लानमुखाम्भोजा पद्मिनीव दिनात्यये । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥६०॥ भ्राता प्रव्रजितो भर्तापि च प्रव्रजितो मम । प्रव्रजिष्यति पुत्रोऽपि प्रव्रजाम्यहमप्यतः ||६१॥ विनिश्चित्यात्मनैवेति सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयोऽपि ते ॥ ६२॥ व्रतेच्छुर्न पपौ स्तन्यं वज्रस्तावद्वया अपि । इत्याचार्यैः परिव्राज्य साध्वीभ्यः पुनरर्पितः ॥६३॥ सुनन्दापि व्रतं भेजे वज्रस्त्वेकादशापि हि । पठदार्यामुखाच्छृण्वन्नध्यैष्टाङ्गानि सन्मतिः ॥६४॥ अष्टवर्षोऽभवद् वज्रो यावदार्याप्रतिश्रये । ततो वसत्यामानिन्ये हर्षितैस्तैर्महर्षिभिः ॥६५॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy