________________
[१४५
गुणानुमोदनाद्वारे वज्रस्वामिकथा]
गानैर्न क्रीडनैर्नाङ्कनृत्यैर्न च न चाटुभिः । वाद्यैर्न चुम्बनै पि विरराम स रोदनात् ॥१८॥ एवं च रुदतस्तस्य शिशोर्मासाः षडत्यगुः । सुनन्दापि सदोद्विग्नाऽजनि तेन तनूभुवा ॥१९।। तत्र सिंहगिरिस्त्वागादन्यदा सन्निवेशने । विनेयैर्धनगिर्यार्यसमितादिभिरावृतः ॥२०॥ तं गुरुं धनगिर्यार्यसमितावित्यपृच्छताम् । प्रभो ! नौ स्वजना ह्यत्र तान् विवन्दयिषावहे ॥२१॥ निमित्ततः कुतोऽप्याह यियासन्ताविमौ गुरुः । भावी लाभो महान् ग्राह्यं सचित्ताचित्तमद्य तत् ॥२२॥ सदनेऽथ सुनन्दाया जग्मतुस्तौ महामुनी । तस्याः सखीभिः सानन्दं द्वार्यायातौ निवेदितौ ॥२३॥ सोत्प्रासमूचिरे सख्यः सुनन्दे ! नन्दनस्त्वया । अर्पणीयो धनगिरेः क्व नेष्यत्येष दृश्यताम् ॥२४॥ सुनन्दापि निरानन्दा तमादाय स्तनन्धयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च सा ॥२५॥ इयन्तं कालमात्मेव बालकः पालितो मया । नटिताहं त्वनेनोच्चैरनिशं रुदता भृशम् ॥२६॥ यदि प्रव्रजितोऽसि त्वं तथाप्येनं स्वमङ्गजम् । गृहाण मामिव त्याक्षीर्मा स्मैनमपि सम्प्रति ॥२७॥ श्रुत्वा धनगिरिस्त्वाह विन्यस्तमुखवस्त्रिकः । कल्याण्येवं करिष्यामि पश्चात्तापं तु यास्यसि ॥२८॥ मा कृथाः सर्वथेदृक्षं कुरुषे वा कुरुष्व तत् । समक्षं साक्षिणां भद्रे ! पुनर्नैनं हि लप्स्यसे ॥२९॥
15