________________
5
10
15
20
१४६ ]
ततश्च साक्षिणः कृत्वा सनिर्वेदं सुनन्दया । तस्मै स मुनये सूनुरर्पितस्तेन चाददे ॥३०॥ बालं धनगिरिः पात्रबन्धने तं न्यधत्त च । रोदनाद् दत्तसंकेत इवासौ विरराम च ॥३१॥ ततः सुनन्दासदनाद् मुनि तावात्तबालकौ । गुर्वाज्ञपालकौ भूयोऽपीयतुर्गुरुसंनिधौ ॥३२॥ तद्भारेण नमद्वाहुं दृष्ट्वा धनगिरिं गुरुः । अभाषतामुना भिक्षाभारेणायासितो भवान् ॥३३॥ तदेनमर्पयास्माकं विश्राम्यतु भुजस्तव । इत्यार्पयद् धनगिर्रिगुरोर्यत्नेन तं सुतम् ॥३४॥ बालार्कमिव तं बालं भासमानं समाददे । गुरुः करयुगेणादिसन्ध्या शोणनभोरुचा ||३५|| तद्भारभङ्गरकरो गुरुराह सविस्मयः । अहो पुंरूपभृद्वज्रमिदं धर्तुं न शक्यते ||३६|| भावी प्रवचनाधारो महापुण्यः पुमानयम् । साध्वीनामिति तं बालं पालनायाऽऽर्पयद् गुरुः ॥३७॥ तं बालं गुरुणा गुप्तवज्रनामानमार्थिकाः । शय्यातरकुले भक्ते पालनायार्पयंस्ततः ॥३८॥ दक्षाः कुमारपोषाय शय्यातर्योऽपि तं शिशुम् । स्वस्वपुत्राधिकप्रीत्या पश्यन्त्यः पर्यपालयन् ॥३९॥ वयोवृद्धपरिणामो वज्रः सज्ज्ञानवत्तया । बालोऽपि नाप चापल्यं किञ्चित्तासामसौख्यदम् ॥४०॥ ज्ञानोपकरणादानैर्बालकेलिं स कल्पयन् । वज्रः प्रमोदयामास प्रतिवासरमार्थिकाः ॥४१॥
[ विवेकमञ्जरी