SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे वज्रस्वामिकथा] [१४३ अथ श्रीवज्रस्वामिनं तदपूर्वगुणग्रहणपूर्वं प्रणमन्नाह - तरुणीजणेण धणसंचएण तह गुरुअबंधुनेहेण । न विलुद्धं जस्स मणो तस्स नमो वयरसामिस्स ॥४२॥ [तरुणीजनेन धनसञ्चयेन तथा गुरुबन्धुस्नेहेन । न विलुब्धं यस्य मनस्तस्मै नमो वज्रस्वामिने ॥] व्याख्या - तस्मै वज्रस्वामिने नमः, 'जस्स मणो' यस्य मन: 'न विलुद्धं' । केन? 'तरुणीजणेण' प्रार्थनापरवशाभिनवयौवनयुवतीजनेन । न केवलमनेन, किन्तु धनसञ्चयेन धनानां गणिमधरिममेयपारिच्छेद्यानां संचयः समूहस्तेन । न केवलममुना, 'तह' तथा 'गुरुअबंधुनेहेण' गुरुरेव गुरुकः स चासौ बन्धुस्नेहोऽत्र मातृवात्सल्यं गुरुकबन्धुस्नेहस्तेन । यदुक्तमस्माभिरपि गणधरावल्याम् - 10 "बाल्ये न मातृवचनैरतिदीनदीनैः स्निग्धाङ्गनार्थनगिरा न हि यौवनेऽपि । श्रीसञ्चयैरपि चचाल मनो न यस्य तस्मै नमोऽस्तु दशपूर्वभृतेऽन्तिमाय ॥" [ ] इति संक्षेपार्थः, व्यासार्थस्तु कथानकादवसेयः; तच्चैतत् - $$ अस्त्यवन्तिषु विख्यातं पुरं तुम्बवनाभिधम् । श्रेष्ठी धनगिरिर्नाम् तस्मिन् गुरुधनोऽभवत् ॥१॥ स बाल्यादपि संसारविरक्तात्मा सुनन्दया । धनपालेभ्यनन्दिन्याऽऽग्रहतः पर्यणीयत ॥२॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । भेजे धनगिरिर्भोगफलं कर्म हि नान्यथा ॥३॥ इतश्चाष्टापदगिरौ गौतमेन गणेन्दुना । प्रथितं पुण्डरीकाख्याध्ययनं यः पुराऽशृणोत् ॥४॥ स हि वैश्रवणाभिख्य: यक्षसामानिकः सुरः । प्रच्युत्यावतरत्तस्यां सुनन्दायास्तदोदरे ॥५॥ युग्मम् ॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy