________________
5
१४२]
भद्रा धाम जगाम सा निजमथो भूमानपि स्वामिनः
श्री वीरस्य पदौ प्रणम्य विमनाः स्वां राजधानीमगात् ॥ १२६॥
अथ जगति सधन्यः शालिभद्रः स धन्यः, सुकृतनिकृतकर्मा भिन्नसंसारमर्मा ।
अनशनमिति कृत्वा भावशुद्धं च मृत्वा, वितुषसुखसमृद्धिं प्राप सर्वार्थसिद्धिम् ॥१२७॥४१॥
॥ इति श्रीशालिभद्रकथा समाप्ता ॥
[विवेकमञ्जरी