SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे शालिभद्रकथा ] वैभाराद्रिं ययौ भद्रा श्रेणिकेन समं ततः । तथास्थितावपश्यच्च पतितौ तौ द्रुमाविव ॥ ११५ ॥ तदुःखमिति पश्यन्ति स्मरन्त्यपि च तत्सुखम् । रुरोद रोदयन्ती सा कन्दराः प्रतिनिःस्वनैः ॥ ११६॥ “हा वत्स ! गृहमायातोऽप्यद्य निष्पुण्यया मया । न ज्ञातोऽसि प्रमादेन प्रसीद मयि मा रुषः ॥११७॥ हा वत्स ! यद्यपि त्वं नोऽत्याक्षीः पूर्वं तथाप्यभूत् । मनोरथो यदागत्य शिशिरीकुरुषे दृशौ ॥ ११८ ॥ हा वत्स ! वपुषस्त्यागहेतुनाऽनेन कर्मणा । मनोरथं तमपि मे भङ्क्तुमुद्यतवानसि ॥११९॥ हा वत्स ! हंसतूलीषु वपुस्ते सुखलालितम् । कथं विषहते ब्रूहि कठोराश्मतलव्यथाम् ? ॥१२०॥ हा वत्स ! श्रेणिकस्यापि यदम्लायि वपूष्मणा । तत्कथं कर्कशां भूमिं सहते शंस ते वपुः ? ॥१२१॥ हा वत्स ! मृदुसङ्गीतपानदुर्ललितौ तव । सहिष्येते कथङ्कारं कर्णौ फेरुण्डफूत्कृतिम् ॥१२२॥ "अथोचे श्रेणिको हर्षस्थाने रोदिषि किं शुभे ! | ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि ॥ १२३॥ असौ तृणमिवात्याक्षील्लक्ष्मीं भोगांश्च रोगवत् । मुक्तिसम्पत्प्रदान् पादान् प्रपेदे स्वामिनः पुनः ॥ १२४॥ असौ श्रीवीरशिष्यत्वानुरूपं तप्यते तपः । त्वया तु स्त्रीस्वभावेन मुधा मुग्धेऽभितप्यते ॥ १२५॥ इत्थं श्रेणिकभूभुजा निजकरैरालुम्पता श्रूदकश्रेणि पङ्कजबन्धुनेव नलिनीवालम्ब्य संबोधिता । 11 [ १४१ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy