________________
१४०]
[विवेकमञ्जरी
10
सोऽचिन्तयदिदं साधु साधुपात्रमुपस्थितम् । चित्तं पात्रं च मे वित्तं त्रिवेणीसङ्गमोऽद्य तत् ॥१०३॥ अथोत्थाय मुनिं नत्वा प्राञ्जलिः प्रार्थयद् मुदा । गृहाणं पायसमिदं प्रसीद परमेश्वर ! ॥१०४॥ इत्यसौ स्थालमुत्पाट्य पायसं मुनये ददौ ।
जग्राह मुनिरप्यस्यानुग्रहाय महाशयः ॥१०५॥ 8 मुनिर्ययौ च धन्या च परगेहादिहागमत् । मत्वा भुक्तमनेनास्मै पायसं सा पुनर्ददौ ॥१०६।। अनासदितपूर्वं तद् बालोऽपि बुभुजेतमाम् । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥१०७॥ तेन दानप्रभावेण स त्वं गोभद्रनन्दनः । सा च पूर्वभवाऽम्बा ते ययाऽसि प्रतिलाभितः" ॥१०८॥ श्रुत्वेति पारणं कृत्वाऽनुज्ञाप्य च जिनाधिपम् ।. सधन्यः शालिभद्रोऽद्रौ वैभारेऽनशनं व्यधात् ॥१०९॥ तदा तदम्बा भद्रा च श्रेणिकश्च महीपतिः । भक्तियुक्तावुपेयातां श्रीवीरचरणान्तिके ॥११०॥ नत्वा भद्राऽभ्यधाद् धन्य-शालिभद्रौ क्व तौ मुनी । भिक्षार्थ नागतौ कस्मादस्माकं भवने विभो ! ? ॥१११॥ सर्वज्ञौऽभिदधे भद्रे ! भवद्वेश्मागताविमौ । ज्ञातौ त्वया तु नैवेहागमनव्यग्रचित्तया ॥११२॥ प्राग्जन्ममाता सूनोस्ते यान्ती पुरं प्रति । ददौ दधि तयोस्तेन तौ व्यधत्तां च पारणम् ।।११३।। उभावपि शुभावेतौ भवत्यागाय सत्वरौ । पादपोपगमं कृत्वा वैभाराद्रौ स्थितावथ ॥११४॥