________________
[१३९
गुणानुमोदनाद्वारे शालिभद्रकथा]
सशालिभद्र-धन्यः श्रीवीरो वन्दिष्यतेऽधुना । इति हृल्लेखिता भद्रा नाऽद्राक्षीदपि तौ पुरः ॥९१॥ क्षणमेकमिह स्थित्वा निगतौ नगरादपि । समायान्ती जरत्येका दध्ना तौ प्रत्यलाभयत् ॥९२।। श्रीवीरस्थान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽभ्यधान्नाथ ! मातृतः पारणं कथम् ? ॥९३।। "सर्वज्ञोऽभिदधे वत्स ! पुरस्यास्य समीपगे । शालिग्रामे समागच्छद् धन्येत्युच्छन्नवंशिका ॥९४।। कृत्वा परगृहे कर्म सा जीवति वराकिका । बालः सङ्गमकस्तस्या वत्सरूपाण्यचारयत् ।।९५।। दृष्ट्वान्येधुरथ ग्रामडिम्भान् पायसमशनतः । गत्वा स्वगेहे जननीं पायसं सोऽप्ययाचत ॥१६॥ साप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः । स त्वज्ञानतया बालो ययाचे पायसं मुहुः ॥९७॥ तेनेति याच्यमानाथ दारिद्र्याच्च तथात्मनः । शोचन्ती पूर्वविभवं स्मारं स्मारं रुरोद सा ॥९८॥ कुररीमिव तारं तामुररीकृतरोदनाम् । श्रुत्वेति प्रातिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ॥१९॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥१००॥ खण्डाज्यपायसभृतं स्थालं बालस्य तस्य सा । अर्पयित्वा ययौ कर्म निर्मातुं परवेश्मनि ॥१०१॥ विचरन् पारणायात्र क्षणे मासमुपोषितः । यतिरेकः समागच्छत् तपः क्षामोऽतिरेकतः ॥१०२॥