SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १३८ ] त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यम्मन्यो महामनाः ॥७९॥ गिरावितश्च वैभारे श्रीवीरः समवासरत् । मनोऽभिमतसामग्रीं सतां हि परिपच्यते ॥८०॥ दत्तदानः सदारोऽसावारुह्य शिबिकामथ । गत्वा श्रीवीरपादान्ते मुदाऽन्तेवास्यभूदयम् ॥८१॥ श्रुत्वेति शालिभद्रोऽपि धन्यम्मन्योऽतिविस्तरम् । गत्वातिसत्वरं वीरपादान्ते व्रतमग्रहीत् ॥८२॥ ततः सपरिवारोऽपि विजहार जिनेश्वरः । महीं ग्रामाकरद्रोणमडम्बपुरमण्डिताम् ॥८३॥ धन्यश्च शालिभद्रश्च विश्रुतौ तौ बहुश्रुतौ । अभूतां तपसा क्षामौ श्यामौ दग्धाविव द्रुमौ ॥८४॥ तौ विश्वतिलकौ धर्मोद्यानपालेन सद्गतौ । आरोपितुमिवाङ्गारभावं नीतौ तपोऽग्निना ॥८५॥ अन्यदा श्रीमहावीरस्वामिना सह तौ मुनी । आजग्मतुः पुरं राजगृहं जन्मभुवं निजाम् ॥८६॥ ततो निकटारामस्थं प्रणन्तुं परमेश्वरम् । समीयुः परितः पौराः सुराज्यविपुलश्रियः ||८७ || तौ मासपारणे शालिभद्र - धन्यावुभावपि । काले विहर्तुं भिक्षायै भगवन्तं प्रणेमतुः ॥८८॥ पारणं मातृहस्तेन तेऽद्येति स्वामिनोदितः । इच्छामीति भणन् शालिभद्रो धन्ययुतौ ययौ ॥८९॥ भद्रागेहाङ्गणे गत्वा तावस्थातां महामुनी । तपःकृशतया किञ्चोपालक्ष्येतां न केनचित् ॥९०॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy