________________
गुणानुमोदनाद्वारे शालिभद्रकथा]
[१३७
शालिभद्रस्वसा साश्रु स्नपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ।।६७।। व्रतं ग्रहीता मे भ्राता मुञ्चत्येकां दिने दिने । भार्या च तूलिकां चाहं तेन रोदिभि हेतुना ॥६८।। धन्यः सनर्म तामूचे वराक: फेरुपोतवत् । हीनसत्त्वस्तव भ्राता य एवं कुरुते किल ॥६९।। अन्याभिरिति च प्रोचे स भार्याभिः सनर्मकम् । सुकरं चेद् व्रतं नाथ ! किं त्वयाऽऽद्रियते न हि ? ॥७०॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ।।७१॥ अथोचूस्ताश्च भर्तारमश्रुमिश्रविलोचनाः ।। प्रसीद नाथ ! नो हासविकासं कर्तुमर्हसि ॥७२।। "अथाह धन्यः स्नेहस्य भव्या द्रव्यात्मनोऽपि न । संसक्तिः पश्यतैतस्यां जायते यद्यदङ्गिनाम् ॥७३॥ क्रियते मानुषः पोत्तिं परिधाप्य बहिःश्रियः । मद्यते निर्दयं हस्तैः पादैश्च परिपीड्यते ॥७४॥ पिष्टैरावय॑ते स्वैरं खटीभिश्च खरण्ट्यते । चपेटाभिश्च हन्येत निरागोऽपि हि मूर्धनि ॥७५॥ इत्थं विगोपकात् तप्तेनाम्भसा तपसा यथा । गतस्नेहमलं भूयोऽप्यलङ्कर्वीत सम्पदे ॥७६॥ भावस्नेहस्य तद् ब्रूमः किमतोऽधिक एव सः । बलीयान् बहिरङ्गाद् यदन्तरङ्गो विधिः स्मृतः" ॥७७॥ मत्वेति भवतीभिस्तद् वाच्यमेव न किञ्चन । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥७८।।