________________
१३६]
[विवेकमञ्जरी
$$ शालिभद्रोऽपि संसारविरक्तः सुहृदाऽन्यदा । वधितो धर्मघोषस्य प्रभोरागतिवार्तया ॥५६।। आरुह्य रथमभ्येत्याचार्यपादान् प्रणम्य च । निविष्टो देशनान्तेऽसौ पप्रच्छेति कृताञ्जलिः ॥५७॥ प्रभो ! के ते महापुण्या येषां स्वामी न विद्यते ? । भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः ॥५८॥ आपृच्छ्याम्बां व्रतमहं ग्रहीष्यामीत्युदीरयन् । गुरून् नत्वा गृहं गत्वा सावित्रीमित्ययं जगौ ॥५९॥ अम्बाऽद्याशृणवं धर्मं धर्मघोषप्रभोरहम् । भद्राऽवादीद् वरं वत्स ! पितुस्तस्यासि नन्दनः ॥५९।। नत्वोचे शालिभद्रश्चेद् मातरेवं प्रसीद तत् । ग्रहीष्यामि परिव्रज्यां पितुस्तस्य सुतोऽस्म्यहम् ॥६०॥ भद्राऽभ्यधत्त ते योग्यो नास्ति साधुव्रतोद्यमः। किञ्चात्र पुत्र ! पेयाग्निज्वालामाला निरन्तरम् ॥६॥ कुमार ! सुकुमारस्त्वं दिव्यभोगैश्च लालितः । रम्भास्तम्भो गजालानमिव किं वाच्छसि व्रतम् ? ॥६२॥ शालिभद्रोऽभ्यधाद् मातः ! सत्त्वस्य किमु दुर्धटम् । मृणालमृदुलः शेषः क्षमाभारं दधाति यत् ? ॥६३॥ भद्राऽवादीत् पुरो वत्स ! भोगाननुदिनं त्यज । सहस्व त्वं मनुष्याणां गन्धान् पश्चाद् व्रतं भज ॥६४॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् ।
भार्यां च तूलिकामेकां मुञ्चति स्म दिने दिने ॥६५।। $$ इतश्चासीत् पुरे तस्मिन् धन्यः सत्कर्मधन्यधीः ।
सुभगम्भावुकः श्रीभिः शालिभद्रस्य भावुकः ॥६६॥