SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [१३५ 10 गुणानुमोदनाद्वारे शालिभद्रकथा] अथोपरुद्धो मात्राऽयमुत्ततार शिरोगृहात् । समं वधूभिराकाशादप्सरोभिरिवामरः ॥४२॥ वेणीभुजगमञ्जीरभृङ्गसञ्जितसंयुताः । कर्पूरवृक्षं निकषा श्रीखण्डलतिका इव ॥४३।। अन्वायान्तीर्वधूः शालिभद्रमैक्षिष्ट भूपतिः । अभ्येत्य सोऽपि राजानमनमद् विनयान्वितः ॥४४॥ युग्मम् ॥ सस्वजे शालिभद्रोऽथ स्वाङ्के सुत इवासितः । राज्ञा शिरसि चाघ्रातः खिन्नो म्लानोऽभवत् क्षणात् ॥४५॥ ततो भद्रा जगादेवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥४६।। देवभूमिं यतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्राङ्गरागादि प्रतिवासरम् ॥४७॥ ततो राज्ञा विसृष्टेऽस्मिश्चन्द्रशालामुपेयुषि । भोक्तुं भद्रार्थितः सस्नौ राजा मुद्राऽस्य चापतत् ॥४८॥ गवेषयति राज्ञीमां भद्रादेशेन दासिकाः । वाप्यम्भोऽन्यत्र निन्युः सोऽपश्यत् तत्र महो महत् ॥४९॥ तन्मध्ये मुद्रिकां चन्द्रबिम्बाङ्ककलिकामिव । दृष्ट्वा स फुल्लनयनो विस्मयादुदधारयत् ॥५०॥ किमेतदिति राज्ञोक्ता दास्यवादीदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्यापि धीयते ॥५१॥ सर्वथा धन्य एवायं धन्योऽहमपि यस्य मे । सज्ये येनेदृशाः सन्तीत्यन्तरा मुमुदे नृपः ॥५२॥ राजाथ बुभुजे जातसंमदः सपरिच्छदः । स्वालयं च ययौ वस्त्ररत्नालङ्कारपूजितः ॥५३॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy