SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 5 १३४] [विवेकमञ्जरी "गोपुरोभयतः क्लृप्तेन्द्रनीलकदलीवनम् । मणिमयप्रतीहारस्तम्भितेक्षणमङ्गिनाम् ॥३०॥ पर:सहस्रमाणिक्यस्तम्भं कनकभित्तिमत् । सुजात्यरूप्यवलभि कुरुविन्दाश्मकुट्टिमम् ॥३१॥ सप्तभूमितया सप्तलोक्या मण्डनिकामिव । साहस्राक्षमिवाङ्गं वा गवाक्षैर्गणनातिगैः ॥३२॥ नानादिव्यांशुकोल्लोचरोचमानं समन्ततः । प्रतिकोणं ज्वलद्धूपघटीधूमाधिवासितम् ॥३३॥ कृतकस्तूरिकालेप स्वस्तिकन्यस्तमौक्तिकम् । स्वर्णपिष्पलस्रग्दामश्रेणिविश्राणितोत्सवम् ॥३४॥ विमानमिव जित्वेदं नृत्यकोटिध्वजाभुजैः । विलसद्विस्मयावेशस्तद्विवेश विशां पतिः" ॥३५।। षड्भिः कुलकम् ।। तस्याधस्त्रीन् क्षणान् धात्रीविभुरालोक्य विस्मयात् । तुरीयं क्षणमारुह्य सिंहासनमुपाविशत् ॥३६।। सप्तम्यां भुवि भदैत्य शालिभद्रमजूहवत् । आयातः श्रेणिकोऽस्तीह वत्स ! तं द्रष्टुमेह्यधः ॥३७॥ अम्ब ! त्वमेव यद् वेत्सि तत् मूल्यं तस्य कारय । किं मया तत्र कर्तव्यमिति भद्रामुवाच सः ॥३८|| अथाह भद्रा हे वत्स ! क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥३९॥ श्रुत्वेति शालिभद्रोऽन्तः सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यद् ममाप्यपरः प्रभुः ॥४०॥ रोगैरिवाहिभोगैर्वा भोगैरलमतः परम् । करिष्यामि तथा स्वामी यथा नान्यो भवेद् मम ॥४१॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy