SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [१३३ गुणानुमोदनाद्वारे शालिभद्रकथा] वणिजोऽन्येधुराजग्मुर्गृहीत्वा रत्नकम्बलान् । महार्घानिति नादत्त नृपो भद्राऽग्रहीत्तु तान् ॥१८॥ चिल्लणाप्रार्थितेनाथ राज्ञकं रत्नकम्बलम् । याचिता वणिजोऽशंसन् भद्रा तानग्रहीदिति ॥१९॥ प्रधानपुरुषेणाथ भूविभू रत्नकम्बलम् । महामूल्यं यथामूल्यमेकं भद्रामयाचयत् ॥२०॥ भद्रोचे तान् वधूपादप्रोञ्छनीकृतवत्यहम् । सन्त्येतानि तु जीर्णानीत्यतो विज्ञप्यतां विभुः ॥२१॥ स गत्वैतज्जगौ राजे रायूचे चिल्लणा त्वदः । पश्याऽस्मद्वणिजां काचवैडूर्याणामिवान्तरम् ॥२२॥ तमेवपुरुषं प्रेष्य श्रेणिकेनातिकौतुकात् । शालिभद्रे समाहूते गत्वा भद्रेदमब्रवीत् ।।२३।। बहिर्न हि महीनाथ ! जातु निर्याति मेऽङ्गजः । प्रसादः क्रियतां देव ! तद्गृहागमनेन मे ॥२४॥ कौतुकात् प्रतिपेदे तद् भूभुजा श्रेष्ठिनी ततः । आराजसौधं स्वगृहादतिशोभामकारयत् ॥२५॥ "तयाहूतस्ततो राजा पुष्पैराजानुराजिताम् । ज्वलद्धूपघटीधूमां क्षौमांशुकसमुच्छ्रयाम् ॥२६॥ रम्भासमूहसंरम्भामतिजम्भारिपत्तनाम् । चन्द्रोदयचमूहद्यामतिद्यां च पुरः पुरः ॥२७॥ विपञ्च्यमानसङ्गीतां प्रतिमञ्चं पदे पदे । स्थाने स्थाने च निष्पाद्यमाननीराजनोत्सवाम् ॥२८॥ परिस्फूर्जत्पुरक्षोभा हट्टशोभां निभालयन् । प्राप संपत्कलाशालिशालिभद्रनिकेतनम्" ॥२९॥ कलापकम् ॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy