________________
5
15
20
१२६ ]
[ विवेकमञ्जरी
अथ सुकोशलमुनेर्वधपरीषहसहनकौशलकलाकिसलयेनात्मवार्णी वसन्तय
न्नाह
व्याख्या
जननी माता व्याघ्री सिंही जाता, तया तथा तेन प्रकारेण दारुणेनेत्यर्थः, दारितोऽपि खण्डशः कृतोऽपि 'मुणिवसहो' मुनिवृषभो मुनिषु प्रतिपन्नपरिषहोपसर्गनिर्वहणतया वृषभो धवलः स तथा, यद्वा मुनिश्रेष्ठः, 'सुकोसलो' 10 सुकोशलनामा 'निव्वुई पत्तो ' निर्वृत्तिं सुखं प्राप्तः । यः किल विदार्यते स कथं सुखमाप्नोति ? इति व्यतिरेकोऽयम् । अन्वयस्तु निर्वृत्तिं प्राप्तः । किं कुर्वाणः ? ‘अहियासंतो’ अधिसहमान: किं तत् ? 'अहियं' अहितं वपुर्विदारणस्वरूपं, यद्वा, अधिकं
25
जणणी जाया वग्धी तीए तह दारिओ वि मुणिवसहो । अहियासिंतो अहिअं सुकोसलो निव्वुइं पत्तो ॥ ४०॥
[जननी जाता व्याघ्री तया तथा दारितोऽपि मुनिवृषभः । अधिसहमानोऽधिकं सुकोशलो निर्वृत्ति प्राप्तः ॥ ]
-
"सह कलेवरखेदमचिन्तयन् स्ववशतापि पुनस्तव दुर्लभा ।
चिरतरं च सहिष्यसि जीव हे परवशो न च तत्र गुणोऽस्ति ते " ॥ [ ] इति भावनातिरिक्तं यथा भवतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः ।
तच्चैतत् -
अस्ति श्रीदत्तसङ्केतं साकेतमिति पत्तनम् । तत्रासीदिन्दुविशदकीर्त्तिः कीर्त्तिधरो नृपः ॥ १ ॥ सहदेव्या महादेव्या सह वैषयिकं सुखम् । असक्तहृदयोऽभुङ्क्त हृषीकेशः श्रियेव सः ||२|| कालक्रमेण तनयः सहदेव्या सुकोशलः । असूयत सुधाम्भोधिवेलयेव सुधाकरः ॥३॥ अथान्यसंयताभावादात्मानं भवचारकात् । मोचयिष्यन् नृपस्तत्र मुदितः पुत्रजन्मनि ||४||