________________
गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ]
[ १२५
भद्रासूनोर्गृहिण्योऽपि विलप्य च विलप्य च । सिप्रायां चक्रिरे शङ्खोद्धरणं क्लिन्नवाससः ॥५४॥ सुतमृत्युसमुद्भूतशोकानलकरालिता । भद्रा तदैच्छत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥५५॥ समेत्य सदने साथ मुक्त्वैकां गुर्विणी वधूम् । सवधूका परिव्रज्य व्यहरद् गुरुभिः समम् ॥५६॥ गुर्विण्यास्तनुभूः क्रमाच्च जनतः श्रुत्वेति यन्मे पिता, चक्रे कालमहो महान्तमिह तन्मूर्त्या सनाथं ततः । प्रासादं तटिनीतटेऽतिविकटं निर्मापयामासिवान्,
अद्याप्यस्ति स विश्रुतः किल महाकालाख्ययाऽवन्तिषु ||५७ ||३९||
॥ इत्यवन्तिसुकुमालकथा ॥
5
10