SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२४] [विवेकमञ्जरी महाव्रती महापुण्यो महासत्त्वोऽयमित्यथ । तत्कालभूमौ तत्कालं विदधे महिमाऽमरैः ॥४२॥ तत्प्रियास्तमपश्यन्त्यः पृच्छन्ति स्म सुहस्तिनम् । आख्याहि भगवन्नस्मत्पतिः कथमभूदिति ? ॥४३॥ उपयोगेन विज्ञाय सुहस्त्यपि च तत्तथा । तद्वृत्तं सर्वमाचख्यौ ताभ्यो मधुकिरा गिरा ॥४४|| अवन्तीसुकुमालस्य वध्वो गत्वाथ धामनि । भद्रायाः पुरतः सर्वास्तं वृत्तान्तं न्यवीविदन् ।४५।। वज्रपातोपमं भद्रा तं निशम्य निशात्यये । स्मशाने प्रययौ तत्र कन्थारिवनभारिते ॥४६॥ आकृष्टं दिशि पूर्वस्यां दृष्ट्वा सूनोः क्लेवरम् । रुरोद सवधूकापि भद्रेति विललाप च ॥४७|| "हा वत्स ! यदि वैराग्यादस्मास्तृणवदत्यजः । शरीरं तत्किमत्याक्षीर्यदाद्यं धर्मसाधनम् ? ॥४८॥ हा वत्स ! दीक्षितोऽपि त्वमेकस्मिन्नपि वासरे। किं नाऽलमकृथाः स्वस्य विहारेण गृहाङ्गणम् ? ॥४९॥ हा वत्स ! शयने पुष्पपत्रपीडाऽसहिष्णु ते । वपुः कथं विषेहेऽदः क्रोष्ट्रीदशनदारणम् ? ॥५०॥ हा वत्स ! यदि निर्मोहस्त्वमत्याक्षीः कुटुम्बकम् । तद् गुरुष्वपि निर्मोहः किमभूस्ते यदुज्झिताः ? ॥५१॥ हा वत्स ! रात्रिः कल्याणी का भविष्यत्यतः परम् । स्वप्ने या दर्शयित्वा त्वामस्मान् संजीवयिष्यति ?" ॥५२॥ अनेकशो विलप्येति भद्रा सिप्रानदीतटे । तस्यौर्ध्वदेहिकं चक्रे रुदती समयोचितम् ॥५३॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy