________________
गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ]
अवन्तीसुकुमालस्य पादयोः सुकुमारयोः । असृग्बिम्बैरभूत् क्षोणिः शोणाब्जैर्मालभारिणी ॥३०॥
श्रृगालाकृष्टकङ्कालमृदङ्गरवडम्बरम् । नृत्यद्वैतालमुत्तालशिवारुदितगीतिकम् ॥३२॥
प्रतिस्थानं चितावह्निज्वालापल्लवितं ततः । सोऽगात् पितृवनं क्रीडावनं पितृपतेरिव ॥३२॥ युग्मम् ॥ कन्थारिकाकुङङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन् पञ्चपरमेष्ठिनमस्कृतिम् ॥३३॥ तत्पदान्यस्रविस्ाणि लिहन्ती सह बालकैः । शृगाली कापि तत्रागात् तत्कुडङ्गं विवेश च ||३४|| शोधयन्ती च सा प्राप तत्पदं चासृगास्पदम् । तं च खादितुमारेभे कृतान्तस्येव किङ्करा ||३५|| चोटं त्रोटं पलं पायं पायं रुधिरमन्तरा । तं भञ्जं भञ्जमस्थ्यश्नात् पादं सा कर्कटीमिव ॥ ३६ ॥ तस्यैकं भक्षयन्ती सा तं पदं निरशेषयत् । तड्डिम्भरूपाण्यपरं प्रथमे प्रहरे निशः ॥३७॥ तथापि न चकम्पे स दध्यौ प्रत्युत सात्त्विकः । शरीरं जीव ! काराभं भज्यते यदि भज्यताम् ॥३८॥ एवं द्वितीययामे तदूरू कुरा चखाद सा । जीवोऽयं क्षुधितस्तृप्यत्विति चक्रे कृपां स तु ॥ ३९॥ तत्तुन्दं भक्षयामास तृतीये प्रहरे च सा । स तु दध्यौ तुदत्यंहोवृन्दं तुन्दमियं न मे ||४०|| यामे तुर्ये च यामिन्या महासत्त्वो विपद्य सः । विमाने नलिनीगुल्मे महर्द्धिरमरोऽभवत् ॥४१॥
[ १२३
5
10
15
20