SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 १२२] सूरिरुचे महाभाग ! न तस्माद् वयमागताः । लोकालोकः समग्रोऽपि साक्षात् स्वाध्यायिनां पुनः ॥ १८ ॥ श्रुत्वेत्युवाच भाद्रेयो यदीदं ब्रुत तत्प्रभो ! विमानं नलिनीगुल्मे पथा केन प्रयाम्यहम् ? ॥१९॥ " सूरिराह व्रतं वत्सोपात्तमेकदिनेऽपि हि । अनन्यमनसो मोक्षं न चेद्दत्ते दिवं ध्रुवम् ॥२०॥ सोऽप्याह नलिनीगुल्मं जातिस्मृत्याऽहमस्मरम् । तत्रैव गन्तुं भूयोऽपि परिविव्रजिषाम्यतः ॥२१॥ प्रव्राजयत मामेवमार्थयत् तममुं गुरुः । जगादेदं वरं किन्तु सुकुमालोऽसि बालक ! ||२२|| सुर्व्या लोहचणकाः सुपेया वह्नितयः । दुष्करं तु जिनोपज्ञमतीचारोज्झितं व्रतम् ॥२३॥ भाद्रेयोऽभिदधे भूम्ना प्रव्रज्योत्कण्ठितोऽस्म्यहम् । सामाचारीं चिरं कालं न च पालयितुं क्षमः ॥२४॥ आदावेव परिव्रज्यां तस्मादनशनान्विताम् । आदास्ये सत्त्वमालम्ब्य स्तोकखेदमिदं खलु ॥ २५॥ गुरूचे महाभाग ! जिघृक्षसि यदि व्रतम् । अनुज्ञापय तद् बन्धूनन्धूनिवान्धकारिणः ||२६|| सोऽप्याह किमनुज्ञातैरेतैर्विघ्नविधायिभिः । एष व्रती भवन्नस्मीत्युच्चखान शिरोरुहान् ||२७|| स्वेनैवोपात्तलिङ्गोऽसौ मा भूदिति सुहस्त्यपि । तं परिव्राजयामास प्रव्रज्याविधिमुच्चरन् ॥२८॥ $$ चिरकालं तपःकष्टनिर्जरां कर्तुमक्षमः । गुरूनापृच्छ्य सोऽन्यत्र ययावनशनं चिकीः ॥२९॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy