________________
[१२१
गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा]
स्वदेहलक्षणश्रीभिरिव मूर्त्ताभिरेष तु । द्वात्रिंशता स्त्रीभिः प्रेमवतीभिः सुखमन्वभूत् ॥६॥ सूरिरार्यसुहस्त्यागादन्यदा तत्र पत्तने । जीवन्तस्वामिनं नन्तुं मुनिपञ्चशतीयुतः ॥७॥ बाह्योद्याने च भगवान् सुहस्ती समवासरत् । मध्ये पुरि च स प्रैषीद्वसति याचितुं मुनी ।।८।। तौ तु भद्राभिधानायाः श्रेष्ठिन्या जग्मतुर्गुहे ॥ पप्रच्छ सापि तौ नत्वा किं नामाऽऽदिशतां युवाम् ? ॥९॥ तावप्यूचतुरावां हि शिष्यावार्यसुहस्तिनः । तदादेशेन कल्याणि ! वसतिं प्रार्थयावहे ॥१०॥ अथैकां सार्पयामास वसत्यै विकटां कुटीम् । चारित्रनृपहस्तीति सुहस्ती तामशिश्रियत् ॥११॥ परावर्तितुमारेभे स्वाध्यायसमयेऽन्यदा । आचार्यैर्नलिनीगुल्माभिधमध्ययनं निशि ॥१२॥ वधूभिः सह भाद्रेयः सप्तभूमगृहोपरि । क्रीडंस्तदा ददौ कर्णं तत्र कर्णरसायने ॥१३॥ अवन्तीसुकुमालस्तत् श्रुत्वा गीतमिवोत्सुकः । कस्तूरिकामृगः सूरिवसतिद्वारमाययौ ॥१४॥ अनुभूतं मया क्वेदमिति चिन्तापरः स तु । जातजातिस्मृतिज्ञानो ययावाचार्यसन्निधौ ॥१५॥ नत्वा चोवाच भगवन् ! भद्रायास्तनयोऽस्म्यहम् । पुरा च नलिनीगुल्मविमाने त्रिदशोऽभवम् ॥१६॥ कदाचिद् यूयमप्यत्र तस्मादेवसमागताः । जानीथ नलिनीगुल्मेतिवृत्तं कथमन्यथा ॥१७॥