SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२०] [विवेकमञ्जरी अथावन्तीसुकुमालमुत्तालभक्तिभरसिद्धाञ्जनोज्जृम्ममाणान्तश्चक्षुषा पुरःस्थमिव पश्यन्नाह - जं दुट्ठसिगालीए ववसिअमसमंजसं तए सहियं । तं मह सुअं पि सामिय ! अवंतिसुउमाल ! भयजणयं ॥३९॥ [यद् दुष्टश्रृगाल्या व्यवसितमसमञ्जसं त्वया सहितम् । तद् मम श्रुतमपि स्वामिन् ! अवन्तिसुकुमाल ! भयजनकम् ।।] व्याख्या - हे स्वामिन् ! अवन्तीसुकुमाल ! 'जं दुट्ठसिगालीए ववसियं' यद् दुष्टश्रृगाल्या क्षुधा परिक्षीणतया निष्करुणफेरुण्डरण्डया व्यवसितं कृतं आपादान्ताङ्गोपाङ्गभक्षणमिति भावः । किविशिष्टम् ? असमञ्जसमरीतिकम् । श्रृगाला हि 10 जीबतो वपुषि न लगन्तीत्यमीषां नीतिः, तया तु जीवतोऽपि तव वपुरुपाजीव्यतेत्यतोऽसमञ्जसम् , 'तए सहियं' त्वया सहितं मर्षितम्, 'तं मह सुयं पि' तद् मम श्रुतमप्याकर्णितमपि 'भयजणयं' भयजनकमातङ्कहेतुरित्यक्षरार्थः । व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ अस्त्यवन्तिषु विख्यातोज्जयिनीति पुरी वरा । पुरन्दरपुरोदारसंपदुज्जयिनी श्रिया ॥१॥ त्रिखण्डभोक्ता भक्ताऽरिभूविभूग्रभुजोष्मणः । सम्प्रतिस्तत्र नाम्नाऽभूद् गुणैरप्रतिमो नृपः ॥२॥ इभ्यपुत्रोऽभवत्तत्र सुत्रामसुतसन्निभः । अवन्तीसुकुमालाख्यः सुकुमालः प्रसूनवत् ॥३॥ यस्य कोटिध्वजच्छायाः कामं मायामशिश्रियन् । वेश्मनि द्रविणद्रोहरक्षादक्षाऽहिसन्ततः ॥४॥ भाग्यलक्ष्मीरिवामुष्य प्राचीनभवसम्भवा । माता भद्रेति सर्वाणि गृहकार्याण्यचिन्तयत् ॥५॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy