________________
गुणानुमोदनाद्वारे चिलातीपुत्रकथा ]
तस्य प्रियाऽनुरागार्तिमनुज्झन्त्यन्यदा पुनः । वश्यो मेऽस्त्विति मूढाऽस्मै पारणे कार्मणां ददौ ॥४॥ क्षीयमाणोऽमुना मृत्वा स मुनिः स्वर्गमासदत् । तत्प्रियाथ परिव्रज्य तदनालोच्य देव्यभूत् ॥१५॥ यज्ञदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेट्याश्चिलात्यास्तनयोऽभवत् ॥६॥ यज्ञदेवप्रिया जीवश्च्युत्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुंसुमेति सुताऽजनि ॥७॥ धनो नियोजयामास चिलातीतनयं च तम् । सुंसुमायाः स्वदुहितुर्बालग्राहकर्मणि ॥८॥ शैशवे वर्तमानामप्यसौ प्राग्भवसंस्कृतः । नीलीरागो बभाजैतां रोलम्ब इव मालतीम् ॥९॥ तदन्यायरतो दासः श्रेष्ठिना निरवासि सः । गवां स्तनानभिलिहन्निव दूरेण कुक्कुरः ||१०|| सोऽथ सिंहगुहां चौरपल्लीं गत्वा तदीशितुः । पुत्रकोऽभूदपुत्रस्य चौरमुख्यो बभूव च ॥ ११ ॥ यौवनं सुंसुमाऽप्यापदसमा रूपसम्पदा । दूरस्थोऽपि सतां दध्यौ मत्तेभ इव नर्मदाम् ॥१२॥ चैलातेयऽन्यदोचे स्वानस्ति राजगृहे पुरे । अन्तर्धनो धनः श्रेष्ठी दुहिता चास्य सुसुमा ॥१३॥ तस्कराः ! तत्र गच्छामो धनं वः सुंसुमा च मे । आस्थायेति व्यवस्थां सोऽपतद्धनगृहे निशि ॥१४॥ क्लृप्त्वाऽवस्वापिनीं विद्यां चौरैग्राहयद्धनम् । ज्ञापयित्वा स्वमायातं सुंसुमा स्वयमग्रहीत् ॥१५॥
[११७
5
10
15
20