________________
११८]
[विवेकमञ्जरी
हृदि स्मरास्त्रभिन्नेऽथ स कृत्वा सुंसुमौषधीम् । चैलातेयः पलायिष्ट सलोप्त्रैः सह दस्युभिः ॥१६॥ आहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । वित्तं वस्तस्करोपात्तं समानयत मे सुताम् ॥१७॥ तत धनः सहारक्षैः पुत्रैश्चायुधपाणिभिः । पुरोगः स्वामनः स्पर्द्धयेव त्वरितमन्वगात् ॥१८॥ इतः पीतमितो भुक्तमितः स्थितमितो गतम् । एवं वदद्भिः पदिकैः स दस्यून् समया ययौ ॥१९॥ हंहो ! हत हताहाय गृह्णीतेति च भाषिणः । मलिम्लुचानाममिलन्नारक्षपुरुषास्ततः ॥२०॥ काकनाशं ननाशुस्ते हित्वा लोप्नं मलिम्लुचाः । सुंसुमां स तु नामुञ्चत् पुरश्वेवाप्तपूपिकाम् ॥२१॥ आरक्षपुरुषास्ते तु तद्धनं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थो हि सर्वः स्यादन्यथामतिः ॥२२॥ कृपाणं पाणिनैकेन द्वितीयेन च सुंसुमाम् । उरूहन्नविशत् पल्ली चिलातीतनयः पुनः ॥२३॥ धनस्तु तदनु प्राप सूनुभिः सह पञ्चभिः । मोचयिष्यन् सुतां तस्माद् मृगीमिह मृगादिव ॥२४॥ धने सविधमायाते रागान्धोऽथ मलिम्लुचः। सारग्राही भवामीति तत्क्षणोत्पन्नया धिया ॥२५॥ शिरः प्रधानं गात्रस्येत्युत्कृत्याऽऽदत्त तन्मुखम् । वीक्षमाणस्ततस्तूर्णं पलायिष्ट प्लवङ्गवत् ॥२६।। युग्मम् ॥ सुंसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पदम्भेन नयनाञ्जलिभिर्ददौ ॥२७॥
15
20