________________
११६]
[विवेकमञ्जरी अथ गाथायुगेन चिलातीपुत्रचरित्रसद्भावमुद्भावयन्नाह - सोणियगंधविणिग्गयपिवीलिया वज्जकीलियाउ व्व । जस्स पविट्ठा चलणेहिं णिग्गया सीसदेसम्मि ॥३७॥ अहह ! मह पावदुविलसियाणमेयं कियत्ति चितंतो । पत्तो चिलाइपुत्तो सुरलोअं निच्चउज्जोयं ॥३८॥ [शोणितगन्धविनिर्गतपिपीलिका वज्रकीलिका इव । यस्य प्रविष्टाश्चरणेषु निर्गताः शीर्षदेशे ॥ अहह ! मम पापदुर्विलसितानामेतत् कियदिति चिन्तयन् ।
प्राप्तश्चिलातीपुत्रः सुरलोकं नित्योद्योतम् ॥] 10 व्याख्या - शोणितगन्धेन कृत्तसुंसुमाशिरः प्रसरदूधिरपरिमलेन विनिर्गता
नि:सृताश्च ताः पिपीलिकाः कीटिकाश्च शोणितगन्धविनिर्गतपिपीलिका कर्त्यः । का इव ? 'वज्जकीलियाउ व्व' वज्रकीलिका इव 'जस्स पविट्ठा' यस्यं प्रविष्टाः । केषु? 'चलणेहिं' चरणेषु न केवलं प्रविष्टाः किन्तु 'निग्गया' निर्गता निःसृताः ।
क्व ? 'सीसदेसम्मि' शीर्षस्य देशः प्रदेशस्तत्र ॥ 'यत्तदोर्नित्यसंबन्धः' इति 15 वाक्यात् स चिलातीपुत्रः सुरलोकं देवलोक नित्योद्योतं सततप्रकाशभासमानं 'पत्तो' प्राप्तः । किं कुर्वन् ? 'चिंतंतो' चिन्तयतन् । किम् ? 'अहह' इति खेदे, 'मह पावदुव्विलसियाणमेयं कियत्ति' मम पापदुर्विलसितानामेतत् पिपीलिकोपसर्गवेदनारूपं कियत् ? न कियदेवेति संक्षेपार्थः । व्यासार्थस्तु कथानकादव
सेयः। तच्चैतत् - 20 $ क्षितिप्रतिष्ठितपुरे यज्ञदेवो द्विजः पुरा ।
विजित्य पण्डितम्मन्यो सूरिणैकेन दीक्षितः ॥१॥ ततः शासनदेव्याऽसौ चित्ताह्लादकिरा गिरा । दृढीकृतो व्रते विन्ध्यानीतो गज इवानिशम् ॥२॥ ततः प्रभृति चारित्रं विपुलं पालयन्नयम् । दीनः प्राचीनसंस्काराद् हीनदेहमलोऽभवत् ॥३॥