SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे स्कन्दककथा ] [११५ श्रुत्वेति पालकस्तस्य विशेषार्तिकृते शठः । तमेव क्षुल्लकं यन्त्रे क्षिप्त्वा पूर्वमपीलयत् ।।३१।। यतीनां पील्यमानानां कपालैः साकमत्रुटन् । कर्माणि सर्वथा शुद्धभावनाभावितात्मनाम् ॥३२॥ संप्राप्य केवलालोकं लोकम्पृणगुणाश्रियः । ते सर्वेऽपि सदानन्दं महानन्दं प्रपेदिरे ॥३३॥ अथोत्पन्नमहाकोपो निदानं स्कन्दकोऽकरोत् । पालकेऽस्मिन् वधाय स्यां दुष्टे राष्ट्रे च राजनि ॥३४॥ इत्थं कृतनिदानोऽसौ सद्यो यन्त्रातिथीकृतः । स्कन्दकस्तु विपद्याग्निकुमारेषूदपद्यत ॥३५।। नयन्त्यस्राविलं तस्य रजोहरणमम्बरे। पुरन्दरयश:सौधे शकुनी समपातयत् ॥३६।। पुरन्दरयशा वीक्ष्योपलक्ष्य च तदग्रतः । रुरोद रोदयन्ती सा प्रासादं प्रतिनिःस्वनैः ॥३७॥ विलपन्त्याह भर्तारं हा पाप ! किमिदं कृतम् । रजोहरणमेतन्मे बन्धोस्तत् किं हतस्त्वया ? ॥३८। त्वां विना तव सङ्केतं विना वात्रैव पत्तने । को हन्ति हन्त ! वैरीति निरीहस्यास्य कः पुनः ? ॥३९॥ बहुधा विलपन्तीति रुदती सातिदुःखतः । सद्यो निहन्तुमात्मानं भूम्यां चास्फोटयच्छिरः ॥४०॥ अत्रान्तरे समागत्य स्कन्दकोऽग्निकुमारकः । नीत्वा सुव्रतपादान्ते व्रतिनी तामकारयत् ॥४१॥ ततः सदेशं सपुरं च सप्रजं सपालकं दण्डकिनं प्रकोपवान् । आच्छाद्य संवर्तकमारुताहृतैः काष्ठैः स देवः कुरुते स्म भस्मसात् ॥४२॥३६॥ ॥ इति स्कन्दककथा ॥ 15 25
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy