SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११४] [विवेकमञ्जरी पालकस्तु समाकर्ण्य समायान्तं स्फुरत्तमाः । आयुधानि न्यधाच्छन्नं प्रासुकोद्यानभूमिषु ॥१८॥ एत्य च स्कन्दकाचार्यो मुनिपञ्चशतीवृतः । तत्रैव समवासार्षीत् तं नन्तुं चाययौ नृपः ॥१९॥ श्रुत्वा तद्देशनां क्षीराश्रवलब्ध्यातिबन्धुराम् ।। प्रशंसन् दण्डकी राजा प्रविवेश पुरं ततः ॥२०॥ याचित्वैकान्तमेकान्ते मत्सरी पालको नृपम् । जगाद् स्कन्दकोऽयं ते राज्यार्थ्यस्ति समागतः ।।२१।। अनेन सह योद्धारः सर्वे पाखण्डधारिणः । शस्त्राणि गोपयित्वो| सर्वे त्वां हन्तुमुद्यताः ॥२२॥ सज्जनाकृतयः कुर्युर्दुर्जना जनयातनाम् । हरेर्दष्ट्राङ्कुराः किञ्चन निघ्नन्तीन्दुकलाकलाः ॥२३॥ प्रत्येषि यदि मे न त्वं स्वयं तदवधारय । सन्त्यायुधानि यद्येषां तत्पमाणं वचो मम ॥२४॥ श्रुत्वेति तगिरं राजा शङ्कितस्तत् तथाऽकरोत् । दृष्ट्वा च भुवि शस्त्राणि कुप्यति स्माविचारकः ॥२५।। ऊचे च पालकं साधु साधु जातमिदं त्वया । अतः परं त्वमेवैतान् निगृहाण यथारुचि ॥२६॥ संसिद्धेप्सितमानी स कीनाश इव निघृणः । मुनीनां पीलनायाथ वने यन्त्रमसूत्रयत् ॥२७॥ प्रत्येकं पीलयामासातीवदुष्टो यतीनयम् । तेषां तु स्कन्दकाचार्यः पर्यन्ताराधनां व्यधात् ॥२८॥ अथैकं क्षुल्लकं दृष्ट्वा पर्यन्ताराधनोद्यतम् । जगाद स्कन्दकाचार्यः शिष्यवात्सल्यमोहितः ॥२९॥ बालकस्यास्य पुरतो यन्त्रो मां क्षिप पालक ! यथात्मलोचनैरस्य पश्यामि मरणं न हि ॥३०॥ 15 25
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy