________________
[११३
गुणानुमोदनाद्वारे स्कन्दककथा]
तदा तु राजा सर्वज्ञोपज्ञतत्त्वविशारदः । आसीत् कुर्वन् समं सभ्यैर्धर्माधर्मविचारणाम् ॥६॥ पालकः स तु चार्वाकचातुरीं तत्र सूत्रयन् । छिन्नजिह्व इवाकारि स्कन्दकेन निरुत्तरः ॥७॥ ततः सभाजनैः सर्वैरपि गर्वस्य पाततः । हसितो न्यङ्मुखीभूय विलक्षः स्वपुरं ययौ ॥८॥ श्रावस्त्यामन्यदा स्वामी सुव्रतः समवासरत् । स्कन्दकेन समं राजाऽभ्येतं प्रणनाम च ।।९।। प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । भगवान् भववैराग्यजननी देशनां व्यधात् ॥१०॥ श्रुत्वाथ भगवद्व्याख्यां स्कन्दको नृपनन्दनः । राजपुत्रैः समं पञ्चशत्या व्रतमुपाददे ॥११॥ भगवानथ सद्भव्यराजीराजीवभास्करः । विजहार भुवं ग्रामनगराकरमण्डिताम् ॥१२॥ तप्यमानस्तपस्तीव्रमधीयानः श्रुतं महत् । कालक मेण गणभृत्पदस्थः स्कन्दकोऽभवत् ॥१३॥ स राजपुत्रमुनिभिस्तैरेव सह दीक्षितैः । पञ्चशत्यावृत्तोऽदीपि यूथाधिप इव द्विपः ॥१४॥ अन्येद्युः प्रतिबोधाय पुरन्दरयश:स्वसुः । स्कन्दको नाथमापृच्छत् कुम्भकारकृतं प्रति ॥१५॥ स्वाम्यूचे वत्स ! भावी तेऽनर्थस्तत्र व्ययात्मकः । त्वं विनाऽऽराधकाः सर्वे भवितारश्च संयताः ॥१६॥ यदमी साधकाः सर्वे तदा प्राप्तं न किं मया ? । चिन्तयित्वेति चलितः स्कन्दकस्तत्पुरं प्रति ॥१७॥