________________
११२]
[विवेकमञ्जरी अथ स्कन्दकाचार्यशिष्यचरित्रचित्रीयमाणचित्तः प्रवक्ति - खंदगसीसेहिं तहा पीलिज्जंतेहिं अहह जंतेहि । जं तेहिं पीलियाई नियकम्माइं तमच्छेरं ॥३६॥
[स्कन्ददशिष्यैस्तथा पीड्यमौनरहह ! यन्त्रैः ।
यत् तैः पीडितानि निजकर्माणि तदाश्चर्यम् ॥] व्याख्या - स्कन्दकाचार्यशिष्यैस्तथा तेन प्रकारेण घोरेणेत्यर्थः, 'पीलिज्जंतेहि' पीड्यमानैः, अहहेत्यनेकार्थत्वात् तादृग्निरपराधमुनिविनाशविडम्बनानुस्मरणात् खेदे अद्भुते च, वक्ष्यमाणमाह – 'जंतेहिं' "द्वितीयातृतीययोः सप्तमी"
[है.प्रा.३/१२५] इति प्राकृतलक्षणाद् यन्त्रेषु पीलनोपकरणेषु 'जं तेहिं' यत्तैः 10 पीलितानि पेषितानि 'नियकम्माई' निजानि च तानि कर्माणि च निजकर्माणि, 'तमच्छेरं' तदाश्चर्यम् । अपि चोक्तमस्माभिः -
"कल्याणवर्णिकावृद्ध्यै गरीयान् सहजानरीन् ।
क्लिश्यमानोऽपि क्लिथनाति नागो धातूनिवाखिलान्" ॥ [ ]
इति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तश्चैतत् ___ 15 $ श्रावस्ती नाम भरतभूमावस्तीह पूर्वरा ।
जितशत्रुरिति ख्यातस्तत्र धात्रीधवोऽभवत् ।।१।। धारिणीति कलामालभारिणी तस्य वल्लभा । तस्यां च स्कन्दकः पुत्रः पुरन्दरयशाः सुता ॥२॥
कुम्भकारकृताभिख्यपुरक्षोणीभृता वृत्ता। .. 20 राज्ञा दण्डकिसज्ञेन नीता च परिणीय सा ॥३॥
एकदा पालको नाम मन्त्री दण्डकीभूपतेः । श्रावस्त्यामाययावात्मराज्यकार्येण केनचित् ॥४॥ जितशत्रुमहीभर्तुः प्रतीहारनिवेदितः । स विवेश सद:सद्म कासारमिव कासरः ॥५॥