SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 ११०] [ विवेकमञ्जरी नीचोऽपि क्रियते मूर्ध्नि पात्रीभूय कृतव्रतः । विषोढानलसम्पर्कः पङ्क एव निरूपणम् ॥३४॥ तप:संपल्लतामूलं प्रतिकूलं शुचां तपः । तपो भवाम्बुधेः कूलं कुकूलं कर्मणा तपः ||३५|| मनःक्षेत्रे शुभध्यानकृषिर्मोक्षफला तदा । एधते ऽघतृणौघं चेत् क्षेत्रज्ञो ननु निन्दति ॥३६॥ इति श्रुत्वा श्रुतिसुधाकिरस्तेषामयं गिरः । व्रतं निर्वृतिकामोऽथ समादत्त समाहितः ||३७|| न भोक्ष्ये तत्र यत्राह्नि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्ति सोऽग्रहीदित्यभिग्रह ||३८|| पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । विवेकी विजहारात्मकर्मक्षयचिकीरसौ ॥३९॥ स एवायं बकध्यानी पापः पापीयसामपि । इत्यभर्त्स्यत लोकेन स तस्मिन् विहरन् मुनिः ॥४०॥ ब्रह्म-स्त्री-भू-गोघातपातकी बत कीदृशः । निस्त्रपो दर्शयत्यास्यमूर्ध्वस्फोटं न याति किम् ? ॥४१॥ परत: स्फिट पापिष्ठ ! व्रती केनासि निर्मितः ? । दूष्यते व्रतमप्येतद् गरेणेव पयस्त्वया ॥४२॥ जल्पतेति जनेनोच्चैः श्वेव लोटैरकुट्यत । विशन् गृहेषु भिक्षार्थं स ईर्यासमितो मुनिः ||४३|| विशेषकम् ॥ स्मार्यमाणो जनेनेति तत्पापमयमन्वहम् ॥ शान्तस्वान्तो न भुङ्क्ते स्म तादृशां किमु दुष्करम् ? ॥४४॥ लेष्टुभिर्मुष्टिभिः पांशुवृष्टिभिर्यष्टिभिर्जनाः । यज्जघ्नुः सोऽधिसेहे तत् सम्यक् चैवमभावयत् ॥४५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy