________________
[१०९
गुणानुमोदनाद्वारे दृढप्रहारिकथा]
सगोभ्रूणौ हतौ हन्त ! मयैतौ द्विजदम्पती । अमून्येतदपत्यानि जीवन्त्यपि हतानि हा ! ॥२२॥ वराकाणामीषां कः पालको हा ! भविष्यति ? । ममापि कः शरण्यः स्याद् घोरदुर्गतिपातिनः ? ॥२३॥ ध्रुवमेतन्न मे कोऽपि प्रायश्चितं प्रदास्यति । ज्वलन्तमग्निमात्मीयगेहे क्षिपति कः किल ? ॥२४॥ ईदृग्पापकृतः प्रायः प्रायश्चित्तं न मे भवेत् । श्वेतिमा क्वापि जायेत नीलीरक्तस्य वाससः ? ॥२५॥ तदहं भैरवं पातं करिष्यामि गिरेरतः । शरीरं पापकारीति खण्डशो येन जायते" ॥२६॥ दृढप्रहारी सुदृढं चिन्तयन्निति यातवान् । प्रत्यासन्ने गिरौ तन्न मुनीन् दृष्ट्वा ननाम च ॥२७॥ धर्मलाभाशिषं दत्त्वा समभाषन्त तेऽपि तम् । परिम्लानमुखो भद्र ! भग्नमान इवासि किम् ? ॥२८॥ "स तूवाचेत्यहं पापी भाष्यमाणेऽपि पाप्मने । मलिनः स्पृश्यमानोऽपि मलिनीकुरुते परम् ॥२९॥ येषामेकतममपि श्वभ्रपाताय तान्यहम् । ब्रह्म-स्री-भ्रूण-गोघातपातकान्यकृपोऽक्लृपम् ॥३०॥ मामीदृशमपि त्रातुं साधवो यूयमर्हथ । किमपि स्थानमस्थानं भानोर्भासयतो भुवम्" ॥३१॥ "अथ ते यतयस्तस्मै यतिधर्ममुपादिशन् । सर्वपापक्षयोपायमखिलापायतायिनम् ॥३२॥ भो भद्र ! कियदेवैतदैहिकं तव पातकम् ? । तपसा हन्यतेऽनन्तभवसम्भृतमप्यदः ॥३३॥
15