SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०८] [विवेकमञ्जरी चकृषुम्भिरूपाणां भुञ्जतां भाजनानि ते। तत्पायसं चखादुश्च दुश्चरित्रा द्विका इव ॥१०॥ दृष्ट्वेति डिम्भरूपाणि विलपन्ति निशम्य च । देवशर्मा कुधा घोरः परिघेण जधान तान् ॥११॥ शस्यानीव खले तेन कुट्यमानान् विलोक्य तान् । त्रस्यतश्च स्थिरीकुर्वन् प्राप चौरचमूपतिः ॥१२॥ तत्रागत्यासिदण्डेन द्विजमुण्डमखण्डयत् । तदस्रगन्धविभ्रान्ता त्रोटयामास दाम गौः ॥१३॥ श्रृङ्गाग्रैरुल्लिखन्ती सा दस्यून् पूत्कारभीषणा । उल्ललाल खुरोदग्रा पताकीकृत्य वालधिम् ।।१४।। तामप्येषोऽर्जुनी विश्वदुर्जनीभावदुर्मदः । द्विधा कृत्वाऽसिधातेन पातयामास पातकी ॥१५।। आ: पाप ! निष्कृप ! कृतं किमेतदिति वादिनी । वेलामासवती तेनाभ्यायान्ती ब्राह्मणी हता ॥१६।। ततो जरायुमध्यस्थं तस्या गर्भ द्विधा कृतम् । विस्फुरन्तमुदैक्षिष्ट स पापिष्ठशिरोमणिः ॥१७।। दृष्ट्वेति विह्वलस्यास्य निस्त्रिंशो न्यपतत् करात् । तन्मूलेव मन:स्थानेऽशुष्यन्निस्त्रिंशतापि सा ॥१८॥ ततः प्रोद्भूतकारुण्यपरिवाहैरिवाश्रुभिः । पूर्यमाणेक्षणः सोऽयं चिन्तयामासिवानिति ॥१९॥ "आस्तदेतद् मयाऽकारि कुर्यान्न श्वपचोऽपि यत् । दर्शयिष्ये च कस्याहमद्रष्टव्यमुखो मुखम् ?॥२०॥ अस्यैकस्यात्मजीवस्य कृते किं किं कृतं मया। इदं तु तत्कृतं यस्य फलं दुर्गतिरप्यणु ॥२१॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy