SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [१०७ गुणानुमोदनाद्वारे दृढप्रहारिकथा] अथ दृढप्रहारिमुनिपरिदृढताममिष्टौति - छम्मासनिराहारो तवसोसियघोरकम्मपन्भारो । सिद्धिसुहं संपत्तो दढप्पहारी महासत्तो ॥३५॥ [षण्मासनिराहारस्तपःशोषितघोरकर्मप्राग्भारः । सिद्धिसुखं संप्राप्तो दृढप्रहारी महासत्त्वः ॥] अस्याः पदार्थः स्पष्टः, व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् – $$ पुरा सुसीमनि ग्रामे भूतशर्माऽभवद् द्विजः । तस्यासीत् कपिला विद्युदिव वारिमुचः प्रिया ॥१॥ छायार्कयोरिव शनिस्तयोरजनि नन्दनः । पिङ्गलः कपिवत्क्रीडाकम्पिताखिलबालकः ॥२॥ तद् दुष्कर्मोपतप्ताभ्यां पितृभ्यामयमन्यदा । गृहाद् निर्वासितश्चौरपल्लीमेकां समासदत् ॥३॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना पुत्रत्वेनाऽन्वमन्यत ॥४॥ चौरपल्लीपतौ तस्मिन् यातेऽथ यमधामनि । तत्पुत्र इति चौरेस्तत्पदेऽसौ विनिवेशितः ।।५।। निस्त्रिंशघातैरुद्दण्डैर्गण्डशैलानपि क्षिपन् । असौ दृढप्रहारीति नाम्ना निजगदे जनैः ॥६॥ अन्यदा विश्वलुण्टाकः स लुण्टाकचमूवृत्तः । ग्रामं कुशस्थलं लुण्टालम्पटो लुण्टितुं ययौ ॥७॥ ब्राह्मणो देवशर्मेति तत्रासीत तस्य मन्दिरे । धेनोर्नवप्रसूताया राद्धं दुग्धेन पायसम् ॥८॥ भाजनेषु शिशूनां तद्गेहिनी पर्यवेषयत् । यावत्तावदमी चौरास्तत्रैव समुपाययुः ॥९॥ युग्मम् ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy