SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [१०५ गुणानुमोदनाद्वारे स्थूलभद्रकथा] धनेश्वर्यप्यदोऽवादीत् भगवन् ! श्रावको धनम् । व्ययते स्म, निधि पश्चादपश्यद् न च पैतृकम् ॥१५५।। ततोऽर्थहीनस्तृणवल्लघुम्मन्योऽत्र पत्तने । ययौ देशान्तरमसौ द्रविणार्जनहेतवे ॥१५६॥ ज्ञात्वोपयोगाद्धर्मोपदेशव्याजादथ प्रभुः । अधःस्थितिनिधिस्तम्भं दर्शयन् हस्तसञ्जया ॥१५७।। व्याहार्षीदयि ! संसारस्वरूपं पश्य कीदृशम् । गृहमीदृग्भवद्भर्तुर्वाणिज्यं तस्य तादृशम् ॥१५८॥ युग्मम् ॥ भगवानेवमाख्याय धनेश्वर्यै मुहुर्मुहुः । ययौ विहर्तुमन्यत्र जिनधर्मं प्रभावयन् ॥१५९॥ यथागतागतस्याख्यद् धनदेवस्य तत्प्रिया । धर्त्यां स्तम्भं समुद्दिश्य स्थूलभद्रकथां तथा ॥१६०॥ व्यमृशद्धनदेवोऽपि स्तम्भमुद्दिश्य देशनाम् । चक्रे यद्भगवान्नूनमिह भाव्यो निधिस्ततः ॥१६१।। बुद्ध्वेति तत्क्षणत्तेन स्तम्भमूलमखन्यत । निधिश्चाविरभूत् तत्र कन्दः पुण्यतरोरिव ॥१६२॥ धनदेवोऽभवत् तेन धनेनातिधनेश्वरः । स्थूलभद्रप्रसादोऽयमिति च व्यस्मरद् न हि ॥१६३॥ धनदेवोऽन्यदा गत्वा पाटलीपुत्रपत्तनम् । स्थूलभद्रमवन्दिष्ट तमूचे च कृताञ्जलिः ॥१६४।। त्वत्प्रसादेन दारिद्र्यसमुद्रं तीर्णवानहम् । त्वं गुरुस्त्वं च मे स्वामी तदाविश करोमि किम् ? ॥१६५॥ भूयास्त्वमार्हत इति स्थूलभद्रस्य भाषितम् । धनदेवोऽभिगृह्याथ स्वस्थानमगमत् पुनः ॥१६६।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy