________________
5
10
15
20
१०४]
अन्यस्मै शेषपूर्वाणि प्रदेयानि त्वया न हि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥१४३॥ सर्वपूर्वधरमथ स्थूलभद्रमहामुनिम् । तमाचार्यपदे श्रीमान् भद्रबाहुरतिष्ठपत् ॥१४४॥ गते वर्षशते वीरमोक्षात् सप्ततिकाधिके । भद्रबाहुरथ स्वामी ययौ स्वर्गं समाधिना ॥ ९४५ ॥ आचार्यः स्थूलभद्रस्तु श्रावस्त्यामन्यदा ययौ । उद्यानेऽस्थाच्च ते नन्तुमागमच्च पुरीजनः ॥१४६॥ नत्वा पुरो निविष्टेषु भव्येषु भगवानपि । चिरं चकार संसारत्रासिनीं धर्मदेशनाम् ॥१४७|| देशनान्ते स्वसुहृदं श्रावस्तीवासिनं विभुः । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥१४८॥ स नः प्रियः सुहृन्नूनमिह नास्ति कुतोऽन्यथा । पुर्लोकः सकलोऽप्यागान्न पुनः स्नेहलोऽपि सः ॥१४९॥ गतो देशान्तरं वा स्याद् रोगी वा स्यादिति स्वयम् । गच्छामस्तद्गृहमपि सोऽनुग्राह्यो विशेषतः ॥१५०॥ इति निश्चित्य भगवान् सङ्घलोकसमन्वितः । बन्दिभिः स्तूयमानः स्त्रीगीयमानतपोगुणः ||१५१|| नगरीमध्यचैत्यानि वन्दमानः पदे पदे ।
जगाम पूर्वसुहृदो धनदेवस्य धामनि ॥ १५२॥ युग्मम् ॥ विशंस्तत्र धनेश्वर्या धनदेवगृहस्थया । अभ्युत्थाय ववन्देऽसावासितश्च महासने ॥१५३॥
भगवानप्यथो धर्मवार्ताभिरनुगृह्य ताम् । पप्रच्छ धर्मशीले ! किं धनदेवो न दृश्यते ॥ १५४॥
[विवेकमञ्जरी