SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [१०३ गुणानुमोदनाद्वारे स्थूलभद्रकथा] ज्ञात्वोपयोगादाचार्योऽप्याह सिंहो न सोऽस्ति तु । अथोपेताश्च ताः स्थूलभद्रं वीक्ष्य ववन्दिरे ॥१३१।। यक्षोचे श्रीयको दीक्षां मया सह समाददे । क्षुधालुः कारितश्चायं तपः पर्युषणादिने ॥१३२॥ पौरुष्या सार्धपौरुष्याऽपार्धेनानशनं क्रमात् । बालवत्कवलैर्भोज्यं कारितोऽसौ मया मुनिः ॥१३३|| निशीथे स ततो धर्मध्यानान्मृत्वा दिवं गतः । मया च याचितः सङ्घः प्रायश्चित्तं तदेनसः ॥१३४॥ अदुष्टभावात् त्वं शुद्धत्युक्ताऽनेन तथाप्यहम् । ताम्यन्ती प्रापिता देवतया सीमन्धरं जिनम् ॥१३५।। भरतादागताऽऽर्येयं निर्दोषेत्यवदज्जिनः । कृपया मन्निमित्तं च व्यांचक्रे चूलिकाद्वयम् ॥१३६।। ततोऽहं छिन्नसंदेहा देव्यात्र प्रापिता पुनः । श्रीसङ्घस्यार्पितवती चूलिकाद्वितयं च तत् ॥१३७॥ उक्त्वेति स्थूलभद्राय ययुस्तां सोऽप्यगाद् गुरुम् । न ददौ वाचनां तस्यायोग्योऽसीति गुरुर्जगौ ॥१३८|| दीक्षादिनात् प्रभृत्येषोऽप्यपराधानचिन्तयत् । ऊचे च न स्मराम्यागो गुर्वादिष्टोऽस्मरच्च तत् ॥१३९॥ न करिष्यामि भूयोऽद इत्युदित्वा नमन्नयम् । गुरुणोचेऽथ ते दास्ये न पुरो वाचनामहम् ॥१४०॥ स्थूलभद्रार्थितेनाथ सङ्घन भणितो गुरुः । जगौ यथा विचक्रेऽनेनान्योऽपि विकरिष्यति ॥१४१।। स सङ्घनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणमुच्छेदो भाव्यतोऽस्तु तत् ॥१४२॥ 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy