________________
5
10
15
20
१०२]
सङ्घाद् बहिः सकर्तव्य इति वक्ति यदा तु सः । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य एव सः ॥ ११९॥ ताभ्यां गत्वा तथैवोक्तो भद्रबाहुरथावदत् । मैवं करोतु भगवान् सङ्घः किन्तु करोत्वदः ॥ १२० ॥ मयि प्रसादं कुर्वाणः श्रीसङ्घः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यो दास्यामि खलु वाचनाः ॥१२१॥ ताभ्यामेत्य तथाऽऽख्याते श्रीसङ्घोऽपि प्रमोदभाक् । प्राहिणोत् स्थूलभद्रादिमुनिपञ्चशतीमथ ॥१२२॥ सूरिस्तान् वाचयामास तेऽप्यानन्त्यात् श्रुताम्बुधेः । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ १२३॥ उद्भज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः ॥ १२४॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ १२५॥ पूर्णे ध्याने ततः सूरिर्भूरिशस्तमपाठयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥१२६॥ सूरयः पाटलीपुत्रमथाजग्मुः सहामुना । तस्थुश्चोपवने प्रापुश्चात्र वन्दारवो जनाः ॥१२७|| व्रतिन्यः स्थूलभद्रस्य भगिन्यो वन्दनागताः । गुरुं प्रणम्य पप्रच्छ्रं स्थूलभद्र ! क्व नु प्रभो ! ॥ १२८॥ इह यक्षालयेऽस्तीति गुरूक्ते ता उपेयुषीः । दृष्ट्वा चित्रयितुं स्थूलभद्रः शार्दूलतामधात् ॥१२९॥ वीक्ष्य सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्यं जग्रसे सिंहस्तत्र सोऽद्यापि विद्यते ॥१३०॥
[ विवेकमञ्जरी