SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [१०१ गुणानुमोदनाद्वारे स्थूलभद्रकथा] माकन्दलुम्बीछेदस्ते नृत्यं मे च न दुष्करम् । अशिक्षितं स्थूलभद्रश्चके यत्तत् तु दुष्करम् ॥१०८।। द्वादशाब्दानि बुभुजे यत्र भोगान् मया सह । तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥१०९॥ स्थूलभद्रं विनान्येषां मनो मनाति मन्मथः । न सुरा नासुराः केचिदत्र भग्ना महारथ ! ॥११०॥ श्रीनेमितोऽपि शकटालसुतं, विचार्य मन्येत को न भुवने भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं त्वधिगम्य धीर: ? ॥१११।। जगदेकमुनेस्तस्य संसर्गेण ममाप्यहो ! । नृपादिष्टं विनाऽन्यस्य पुंसोऽस्ति नियमः खलु ॥११२॥ श्रुत्वेति सोऽवदद् भद्रं स्थलभदाय साधवे । यास्यामि तस्य पन्थानं भवत्यैव निवेदितम् ॥११३।। भद्रमस्तु च ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सुगुरोः पार्वे स गत्वा व्रतमाददे ॥११४॥ द्वादशाब्दीयदुष्कालसङ्कटे गलितं श्रुतम् । संभूयाऽमीमिलत् सङ्घः पाटलीपुत्रपत्तने ॥११५॥ सङ्घन प्रहितौ गत्वा नेपाले यतिनावुभौ । दृष्टिवादभृतं भद्रबाहुमाह्वयतामथ ॥११६॥ सोऽप्युवाच महाप्राणध्यानसिद्धौ समेष्यते । तद्वचस्तौ मुनी सङ्घस्यागत्याशंसतामथ ॥११७।। सङ्घन प्रहितावन्यौ शिक्षयित्वेत्यथो मुनी । सङ्घाज्ञालोपिनो दण्डः कः स्यादिति स वाच्यताम् ॥११८॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy