________________
१००]
[विवेकमञ्जरी नेपालभूधवोऽपूर्वसाधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सापि खेदयितुं मुनिम् ॥९६।। तत्राकालेऽपि गत्वा भूपालात् कम्बलमाप्य च । स मुनिर्ववले तत्र वर्त्मन्यासंश्च तस्कराः ॥९७।। आयाति लक्षमित्याख्यात्तेषां सिद्धाञ्जनः शुकः । तैरप्युपेक्षिते भिक्षौ याति यातीति चावदत् ॥९८|| मुनि चौरपतिः प्राह सत्यं वद किमस्ति ते ? । तेन वंशान्तरस्तीति ख्याते सोऽमुच्यताऽमुना ॥९९।। समागत्य च कोशायै स ददौ रत्नकम्बलम् । साऽक्षिपत् क्षालपङ्के तं सोऽब्रवीत् किमिदं शुभे ! ॥१००।। सोचे शोचसि मूढेदं न स्वं नरकपातिनम् । सोऽवदद् बोधितः साधु साध्वहं रक्षितो भवात् ॥१०१॥ शुद्ध्यै गुरुं प्रयास्यामि धर्मलाभोऽस्तु तेऽनधे ! । साह क्षमेथा बोधाय मया यदसि खेदितः ॥१०२॥ इच्छामीति भणित्वा स गुर्वन्तिकमुपेत्य च । गृहीत्वालोचनां तीव्रमाचचार पुनस्तपः ॥१०३॥ राज्ञादीयत कोशापि तुष्टेन रथिनेऽन्यदा । नृपायत्तेति सा रागं विनापि तमुपाचरत ॥१०४।। स्थूलभद्रगुणस्तोत्रपरायै शयितो रथी। बाणाल्यानीतमाकन्दलुम्ब्याऽस्यै स्वमरोचयत् ॥१०५॥ सापि सर्षपराश्युप्तसूचीन्यस्तसुमोपरि । नरिनर्ति स्म नो सूच्या विद्धा राशिश्च न क्षतः ॥१०६॥ स ततः प्राह तुष्टोऽस्मि दुष्करणामुना तव । सोवाच विस्मयेथा मा किमभ्यासस्य दुष्करम् ? ॥१०७॥
15
:
20