________________
[९९
गुणानुमोदनाद्वारे स्थूलभद्रकथा]
सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो ! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥८४|| यद्यसौ तत्तथा वृत्त्या कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥८५।। क्रमादथाष्टमासान्ते प्रणिपत्य पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ।।८६।। कोशावेश्यागृहे नित्य षड्साहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥८७।। स्थूलभद्रस्य मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरब्रवीत् ।।८८॥ वत्स ! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । क्षमः कर्तुममुं स्थूलभद्र एवादिनिश्चलः ॥८९।। न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ।। तदवश्यं करिष्यामीत्युक्त्वा कोशामगाद् मुनिः ॥१०॥ स्पर्धया स्थूलभद्रस्यायाति मन्ये तपस्व्यसौ । भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥११॥ वसत्यै याचितां चित्रशालां तस्य समर्प्य सा। चक्रे भुक्त्वोर्ध्वमागत्य क्षणं सत्त्वपरीक्षणम् ॥१२॥ चुक्षोभ स मुनिः प्रेक्ष्य तत्क्षणं तां मृगेक्षणाम् । स्मरसन्धुक्षणं तादृग् भोज्यं हि स्त्री च तादृशी ॥९३॥ स्मराा याचमानं तं कोशाह भगवन् ! वयम् । वेश्या धनस्य वश्यां स्मो मन्मथस्यापि नान्यथा ॥९४॥ स मुनिः प्राह लोलाक्षि ! प्रसीद मयि सीदति । अस्ति द्रव्यं किमस्मासु तैलं च चणकेष्विव ॥९५।।